गोदानंभूमिदानंचअन्नदानंतथैवच । एतद्दानसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः
अत्रैव सनकाद्यास्तु स्नात्वा च विधिपूर्वकम् । परंब्रह्मपदध्यानाद्विष्णुलोकमवाप्नुयुः
पुष्करे चैव गंगायां क्षेत्रे चामरकंटके । तत्र गत्वा तु देवेशि यत्फलं लभते नरः
तत्फलं समवाप्नोति ब्रह्मवल्ल्यां विशेषतः । चंद्र सूर्योपरागे च दानं ये ददते नराः
तत्फलं समवाप्नोति ब्रह्मावल्ल्यां सुरेश्वरि । दिव्यरूपधरास्ते च शंखचक्रगदाधराः
तेऽपि स्वर्गे हि गच्छंति स्नानं कृत्वा सुरेश्वरि । धृत्वा तुलसिजां मालां नारायणमनुस्मरन् । वैकुंठं दिव्यमानंदं याति वै पदमव्ययम्
इति ब्रह्मवल्लीतीर्थमाहात्म्यम् । वृषतीर्थं ततो गच्छेत्खंडतीर्थेऽतिविश्रुतम् । तत्र स्नात्वा दिवं गावो गोलोकं च पुराश्रिताः
खंडरूपेण धर्मेण या गावो लोकमातरः । शापाद्भ्रष्टावितास्तेन खंडतीर्थमथोच्यते
पार्वत्युवाच। शापो हि लोकमातॄणां गवां कस्य पुराऽभवत् । कथं लोकात्परिभ्रष्टाः कथं धर्मेण रक्षिताः
महादेव उवाच। पुरा वृषेण गोलोके क्रीडता सह मातृभिः । मुक्तं तथा शकृन्मूत्रं पतितं हरमूर्द्धनि
ततस्तासां ददौ शापं तेन दोषेण वै हरः । नष्टसंज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीम्
गावः शप्ता भगवता संप्रसाद्य पुनर्हरम् । प्राप्स्यामहे पुनर्लोकं इति देवं ययाचिरे
यदा साभ्रमती तीर्थे ब्रह्मवल्ली समीपतः । खंडसंज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यथ ध्रुवम्
ततस्तस्मिन्ह्रदे स्नात्वा गावो गोपतिना सह । स्वर्गं गता शुद्धतमा महादेवसमीपतः
गोह्रदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम् । गवां लोकमवाप्नोति दाहप्रलयवर्जितम्
तत्र स्थित्वा निराहारो गोपिंडं च ददाति वै । स नरः सुखमेधेत यावदिंद्राश्चतुर्दश
गवांकोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम् । तत्फलं समवाप्नोति खंडतीर्थे न संशयः
गृहीत्वा वृषमूत्रं च तीर्थं यः पिबते नरः । तत्क्षणादेव शुद्धिः स्यात्खंडतीर्थे न संशयः
खंडतीर्थात्परं तीर्थं न भूतं न भविष्यति । ये गच्छंति सुरश्रेष्ठ ते नराः पुण्यभागिनः
तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत् । वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः
पूजनाद्वै न संदेहो गोलोके तु वसेच्चिरम् । तत्र गत्वा विशेषेण सौवर्णी गां ददंति ये
ते नरा भुंजते सौख्यं यावदिंद्राश्चतुर्दश । दशधेनुं ततः कृत्वा यो ददाति द्विजातये
खंडतीर्थे सुरश्रेष्ठे तदनंतफलं स्मृतम् । तत्र गत्वा तु कर्त्तव्यं पिप्पलारोपणं बुधैः
तत्कृते सति देवेशि पितृलोकं स गच्छति । पंच वामलकीर्दिव्या ये कुर्वंति प्ररोपणम्
इहलोके सुखं भुक्त्वा हरिलोकं व्रजंति ते
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खंडतीर्थंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः
महादेवउवाच। जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम् । कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम्
यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे । स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम्
रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः । तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम्
जितं वै रामचंद्रेण रावणो निहतो रणे । लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे