इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे द्व्यशीतितमोऽध्यायः
सुकर्मोवाच- समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः । हर्षेण महताविष्ट इदं वचनमब्रवीत्
इंद्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम् । वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम्
व्रजाम्यहं न संदेहो ह्यनया सह सत्तमाः । ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम
सुखेनापि सकुटुंबैः स्थातव्यं तु महीतले । पूरुरेष महाभागो भवतां पालकस्त्विह
स्थापितोस्ति मया लोका राजा धीरः सदंडकः । एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन्
श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम । धर्म एवं यतो लोके न दृष्टः केन वै पुरा
दृष्टोस्माभिरसौ धर्मो दशांगः सत्यवल्लभः । सोमवंशसमुत्पन्नो नहुषस्य महागृहे
हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः । ज्ञानविज्ञानसंपन्नः पुण्यानां च महानिधिः
गुणानां हि महाराज आकरः सत्यपंडितः । कुर्वंति च महाधर्मं सत्यवंतो महौजसः
तं धर्मं दृष्टवंतः स्म भवंतं कामरूपिणम् । भवंतं कामकर्तारमीदृशं सत्यवादिनम्
कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः । यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च
नरकेपि भवान्यत्र वयं तत्र न संशयः । किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च
त्वां विनासुमहाराज तेन नास्त्यत्र कारणम् । त्वयैव सह राजेंद्र वयं यास्याम नान्यथा
एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः । हर्षेण महताविष्टः प्रजावाक्यमुवाच ह
आगच्छंतु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः । नृपो रथं समारुह्य तया वै कामकन्यया
रथेन हंसवर्णेन चंद्रबिंबानुकारिणा । चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः
केतुना तेन पुण्येन शुभ्रेणापि महीयसा । शोभमानो यथा देवो देवराजः पुरंदरः
ऋषिभिः स्तूयमानस्तु बंदिभिश्चारणैस्तथा । प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः
प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम् । गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः । सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः
तेषां तु केतवः शुक्ला हेमदंडैरलंकृताः । शंखचक्रांकिताः सर्वे सदंडाः सपताकिनः
प्रजावृंदेषु भासंते पताका मारुतेरिताः । दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः
दिव्यचंदनदिग्धांगा दिव्यगंधानुलेपनाः । दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः
सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे । प्रजाशतसहस्राणि लक्षकोटिशतानि च
अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे । ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः
विष्णुध्यानपराः सर्वे जपदानपरायणाः । सुकर्मोवाच- एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः
पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम् । ऐंद्रं लोकं जगामाथ ययातिः पृथिवीपतिः
तेजसा तस्य पुण्येन धर्मेण तपसा तदा । ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम्
ततो देवाः सगंधर्वाः किन्नराश्चारणास्तथा । सहिता देवराजेन आगताः संमुखं तदा