कर्मक्षयात्तथा जंतुः शरीरान्नाशमृच्छति । कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः
विविधाः प्राणिनस्तस्य मृत्यो रोगाश्च हेतवः । तथा मम विपाकोयं पूर्वं कृतस्य नान्यथा
संप्राप्तो नात्र संदेहः स्त्रीरूपोऽयं न संशयः । क्व मे गेहं समायाता नाटका नटनर्तकाः
तेषां संगप्रसंगेन जरा देहं समाश्रिता । सर्वं कर्मकृतं मन्ये यन्मे संभावितं ध्रुवम्
तस्मात्कर्मप्रधानं च उपायाश्च निरर्थकाः । पुरा वै देवराजेन मदर्थे दूतसत्तमः
प्रेषितो मातलिर्नाम न कृतं तस्य तद्वचः । तस्य कर्मविपाकोऽयं दृश्यते सांप्रतं मम
इति चिंतापरो भूत्वा दुःखेन महतान्वितः । यद्यस्याहि वचः प्रीत्या न करोमि हि सर्वथा
सत्यधर्मावुभावेतौ यास्यतस्तौ न संशयः । सदृशं च समायातं यद्दृष्टं मम कर्मणा
भविष्यति न संदेहो दैवो हि दुरतिक्रमः । एवं चिंतापरो भूत्वा ययातिः पृथिवीपतिः
कृष्णं क्लेशापहं देवं जगाम शरणं हरिम् । ध्यात्वा नत्वा ततः स्तुत्वा मनसा मधुसूदनम्
त्राहि मां शरणं प्राप्तस्त्वामहं कमलाप्रिय
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकाशीतितमोऽध्यायः
सुकर्मोवाच- एवं चिंतयते यावद्राजा परमधार्मिकः । तावत्प्रोवाच सा देवी रतिपुत्री वरानना
किमु चिंतयसे राजंस्त्वमिहैव महामते । प्रायेणापि स्त्रियः सर्वाश्चपलाः स्युर्न संशयः
नाहं चापल्यभावेन त्वामेवं प्रविचालये । नाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम
अन्यस्त्रियो यथा लोके चपलत्वाद्वदंति च । अकार्यं राजराजेंद्र लोभान्मोहाच्च लंपटाः
लोकानां दर्शनायैव जाता श्रद्धा ममोरसि । देवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः
तेषां च दर्शनं राजन्कारयामि वदस्व मे । दोषं पापकरं यत्तु मत्संगादिह चेद्भवेत्
एवं चिंतयसे दुःखं यथान्यः प्राकृतो जनः । महाभयाद्यथाभीतो मोहगर्ते गतो यथा
त्यज चिंतां महाराज न गंतव्यं त्वया दिवि । येन ते जायते दुःखं तन्न कार्यं मया कदा
एवमुक्तस्तथा राजा तामुवाच वराननाम् । चिंतितं यन्मया देवि तच्छृणुष्व हि सांप्रतम्
मानभंगो मया दृष्टो नैव स्वस्य मनःप्रिये । मयि स्वर्गं गते कांते प्रजा दीना भविष्यति
त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाः । त्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने
एवमाभाष्य तां राजा समाहूय सुतोत्तमम् । पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम्
एह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितम् । ममाज्ञया हि धर्मात्मन्धर्मः संपालितस्त्वया
जरा मे दीयतां तात तारुण्यं गृह्यतां पुनः । राज्यं कुरु ममेदं त्वं सकोशबलवाहनम्
आसमुद्रां प्रभुंक्ष्व त्वं रत्नपूर्णां वसुंधराम् । मया दत्तां महाभाग सग्रामवनपत्तनाम्
प्रजानां पालनं पुण्यं कर्तव्यं च सदानघ । दुष्टानां शासनं नित्यं साधूनां परिपालनम्
कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतः । ब्राह्मणानां महाभाग विधिनापि स्वकर्मणा
भक्त्या च पालनं कार्यं यस्मात्पूज्या जगत्त्रये । पंचमे सप्तमे घस्रे कोशं पश्य विपश्चितः