यदि ते सत्यमस्तीह धर्ममस्ति नराधिप । देवलोकेषु मे नास्ति गगने गतिरुत्तमा
सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्गं गमिष्यसि । तदा कूटं तव वचो भविष्यति न संशयः
पूर्वंकृतं हि यच्छ्रेयो भस्मीभूतं भविष्यति । राजोवाच- सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे
सर्वंसाध्यं सुलोकं मे सुप्रसादाज्जगत्पते । स्वर्गं देवि यतो नैमि तत्र मे कारणं शृणु
आगंतुं तु न दास्यंति लोके मर्त्ये च देवताः । ततो मे मानवाः सर्वे प्रजाः सर्वा वरानने
मृत्युयुक्ता भविष्यंति मया हीना न संशयः । गंतुं स्वर्गं न वाञ्छामि सत्यमुक्तं वरानने
देव्युवाच-। लोकान्दृष्ट्वा महाराज आगमिष्यसि वै पुनः । पूरयस्व ममाद्यत्वं जातां श्रद्धां महातुलाम्
राजोवाच-। सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः । समालोक्य महातेजा ययातिर्नहुषात्मजः
एवमुक्त्वा प्रियां राजा चिंतयामास वै तदा । अंतर्जलचरो मत्स्यः सोपि जाले न बध्यते
मरुत्समानवेगोपि मृगः प्राप्नोति बंधनम् । योजनानां सहस्रस्थमामिषं वीक्षते खगः
सकंठलग्नपाशं च न पश्येद्दैवमोहितः । कालः समविषमकृत्कालः सन्मानहानिदः
परिभावकरः कालो यत्रकुत्रापि तिष्ठतः । नरं करोति दातारं याचितारं च वै पुनः
भूतानि स्थावरादीनि दिवि वा यदि वा भुवि । सर्वं कलयते कालः कालो ह्येक इदं जगत्
अनादिनिधनो धाता जगतः कारणं परम् । लोकान्कालः स पचति वृक्षे फलमिवाहितम्
न मंत्रा न तपो दानं न मित्राणि न बांधवाः । शक्नुवंति परित्रातुं नरं कालेन पीडितम्
त्रयः कालकृताः पाशाः शक्यंते नातिवर्तितुम् । विवाहो जन्ममरणं यदा यत्र तु येन च
यथा जलधरा व्योम्नि भ्राम्यंते मातरिश्वना । तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत्
सुकर्मोवाच-। कालोऽयं कर्मयुक्तस्तु यो नरैः समुपासितः । कालस्तु प्रेरयेत्कर्म न तं कालः करोति सः
उपद्रवा घातदोषाः सर्पाश्च व्याधयस्ततः । सर्वे कर्मनियुक्तास्ते प्रचरंति च मानुषे
सुखस्य हेतवो ये च उपायाः पुण्यमिश्रिताः । ते सर्वे कर्मसंयुक्ता न पश्येयुः शुभाशुभम्
कर्मदा यदि वा लोके कर्मसंबधि बांधवाः । कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः
सुवर्णं रजतं वापि यथा रूपं विनिश्चितम् । तथा निबध्यते जंतुः स्वकर्मणि वशानुगः
पंचैतानीह सृज्यंते गर्भस्थस्यैव देहिनः । आयुः कर्म च वित्तं च विद्यानिधनमेव च
यथा मृत्पिंडतः कर्ता कुरुते यद्यदिच्छति । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति
देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा । तिर्यक्त्वं स्थावरत्वं च प्राप्यते च स्वकर्मभिः
स एव तत्तथा भुंक्ते नित्यं विहितमात्मना । आत्मना विहितं दुःखं चात्मना विहितं सुखम्
गर्भशय्यामुपादाय भुंजते पूर्वदैहिकम् । संत्यजंति स्वकं कर्म न क्वचित्पुरुषा भुवि
बलेन प्रज्ञया वापि समर्थाः कर्तुमन्यथा । सुकृतान्युपभुंजंति दुःखानि च सुखानि च
हेतुं प्राप्य नरो नित्यं कर्मबंधैस्तु बध्यते । यथा धेनुसहस्रेषु वत्सो विंदति मातरम्
तथा शुभाशुभं कर्म कर्तारमनुगच्छति । उपभोगादृते यस्य नाश एव न विद्यते