रमते राजराजेंद्रस्तारुण्येन महीपतिः । एवं विंशत्सहस्राणि गतानि निरतस्य च
भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनः । विष्णुरुवाच- एवं तया महाराजो ययातिर्मोहितस्तदा
कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामते । सुकर्मोवाच- एवं पिप्पल राजासौ ययातिः पृथिवीपतिः
तस्या मोहनकामेन रतेन ललितेन च । न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया
एकदा मोहितं भूपं ययातिं कामनंदिनी । उवाच प्रणतं नम्रं वशगं चारुलोचना
अश्रुबिंदुमत्युवाच- संजातं दोहदं कांत तन्मे कुरु मनोरथम् । अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते
राजोवाच- एवमस्तु महाभागे करोमि तव सुप्रियम् । समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम्
समाहूतः समायातो भक्त्यानमितकंधरः । बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा
तस्याः पादौ ननामाथ भक्त्या नमितकंधरः । आदेशो दीयतां राजन्येनाहूतः समागतः
किं करोमि महाभाग दासस्ते प्रणतोस्मि च । राजोवाच- अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक
समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान् । एवमुक्तो महातेजाः पूरुः परमधार्मिकः
सर्वं चकार संपूर्णं यथोक्तं तु महात्मना । तया सार्धं स जग्राह सुदीक्षां कामकन्यया
अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा । ब्राह्मणेभ्यो महाराज भूरिदानमनंतकम्
दीनेषु च विशेषेण ययातिः पृथिवीपतिः । यज्ञांते च महाराजस्तामुवाच वराननाम्
अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे । तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने
सुकर्मोवाच- इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह । जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ
इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव च । विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम्
दर्शयस्व महाभाग यदहं सुप्रिया तव । एवमुक्तस्तयाराजातामुवाचससुप्रियाम्
साधुसाधुवरारोहेपुण्यमेवप्रभाषसे । स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने
यत्तवोक्तं महाभागे तदसाध्यं विभाति मे । तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च
अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने । असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम्
मर्त्यलोकाच्छरीरेण अनेनापि च मानवः । श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत्
ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम । अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये
देव्युवाच- अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः । त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम्
तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते । नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः
क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम् । तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः
पिप्पल उवाच- कामकन्यां यदा राजा उपयेमे द्विजोत्तम । किं चक्राते तदा ते द्वे पूर्वभार्ये सुपुण्यके
देवयानी महाभागा शर्मिष्ठा वार्षपर्वणी । तयोश्चरित्रं तत्सर्वं कथयस्व ममाग्रतः
सुकर्मोवाच- यदानीता कामकन्या स्वगृहं तेन भूभुजा । अत्यर्थं स्पर्धते सा तु देवयानी मनस्विनी