रूपतेजः समायुक्तं सपत्नीसहितं प्रियम् । न वरं तादृशं कांतं सपत्नीविषसंयुतम्
तस्मान्न मन्यते कांतं भवंतं गुणसागरम् । राजोवाच- देवयान्या न मे कार्यं शर्मिष्ठया वरानने
इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम् । अश्रुबिंदुमत्युवाच- अहं राज्यस्य भोक्त्री च तव कायस्य भूपते
यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम् । इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल
बहुधर्मसमोपेतं चारुलक्षणसंयुतम् । राजोवाच- अन्य भार्यां न विंदामि त्वां विना वरवर्णिनि
राज्यं च सकलामुर्वीं मम कायं वरानने । सकोशं भुंक्ष्व चार्वंगि एष दत्तः करस्तव
यदेव भाषसे भद्रे तदेवं तु करोम्यहम् । अश्रुबिंदुमत्युवाच- अनेनापि महाभाग तव भार्या भवाम्यहम्
एवमाकर्ण्य राजेंद्रो हर्षव्याकुललोचनः । गांधर्वेण विवाहेन ययातिः पृथिवीपतिः
उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम । तया सार्द्धं महात्मा वै रमते नृपनंदनः
सागरस्य च तीरेषु वनेषूपवनेषु च । पर्वतेषु च रम्येषु सरित्सु च तया सह
रमते राजराजेंद्रस्तारुण्येन महीपतिः । एवं विंशत्सहस्राणि गतानि निरतस्य च
भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनः । विष्णुरुवाच- एवं तया महाराजो ययातिर्मोहितस्तदा
कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामते । सुकर्मोवाच- एवं पिप्पल राजासौ ययातिः पृथिवीपतिः
तस्या मोहनकामेन रतेन ललितेन च । न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया
एकदा मोहितं भूपं ययातिं कामनंदिनी । उवाच प्रणतं नम्रं वशगं चारुलोचना
अश्रुबिंदुमत्युवाच- संजातं दोहदं कांत तन्मे कुरु मनोरथम् । अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते
राजोवाच- एवमस्तु महाभागे करोमि तव सुप्रियम् । समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम्
समाहूतः समायातो भक्त्यानमितकंधरः । बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा
तस्याः पादौ ननामाथ भक्त्या नमितकंधरः । आदेशो दीयतां राजन्येनाहूतः समागतः
किं करोमि महाभाग दासस्ते प्रणतोस्मि च । राजोवाच- अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक
समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान् । एवमुक्तो महातेजाः पूरुः परमधार्मिकः
सर्वं चकार संपूर्णं यथोक्तं तु महात्मना । तया सार्धं स जग्राह सुदीक्षां कामकन्यया
अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा । ब्राह्मणेभ्यो महाराज भूरिदानमनंतकम्
दीनेषु च विशेषेण ययातिः पृथिवीपतिः । यज्ञांते च महाराजस्तामुवाच वराननाम्
अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे । तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने
सुकर्मोवाच- इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह । जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ
इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव च । विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम्
दर्शयस्व महाभाग यदहं सुप्रिया तव । एवमुक्तस्तयाराजातामुवाचससुप्रियाम्
साधुसाधुवरारोहेपुण्यमेवप्रभाषसे । स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने
यत्तवोक्तं महाभागे तदसाध्यं विभाति मे । तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च