तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै । भोक्ष्यंति च न संदेहो अतिचंडा महाबलाः
मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः । त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः
एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम । अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह
मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि । यावच्चंद्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः
तावन्म्लेच्छाः प्रपक्ष्यंते कुंभीपाके चरौ रवे । कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम्
समाह्वयति तं राजा न सुतं नृपनंदनम् । शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा
शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः । समाहूय बभाषे च जरा मे गृह्यतां पुनः
भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकंटकम् । पूरुरुवाच- राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव
त्वदादेशं करिष्यामि जरा मे दीयतां नृप । तारुण्येन ममाद्यैव भूत्वा सुंदररूपदृक्
भुंक्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा । यावदिच्छा महाभाग विहरस्व तया सह
यावज्जीवाम्यहं तात जरां तावद्धराम्यहम् । एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः
हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः । यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह
तस्मादहं विधास्यामि बहुसौख्यप्रदायकम् । यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम्
तेन राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते । एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते
तारुण्यंदत्तवानस्मै जग्राहास्माज्जरां नृप । ततः कृते विनिमये वयसोस्तातपुत्रयोः
तस्माद्वृद्धतरः पूरुः सर्वांगेषु व्यदृश्यत । नूतनत्वं गतो राजा यथा षोडशवार्षिकः
रूपेण महताविष्टो द्वितीय इव मन्मथः । धनूराज्यं च छत्रं च व्यजनं चासनं गजम्
कोशं देशं बलं सर्वं चामरं स्यंदनं तथा । ददौ तस्य महाराजः पूरोश्चैव महात्मनः
कामासक्तश्च धर्मात्मा तां नारीमनुचिंतयन् । तत्सरः सागरप्रख्यंकामाख्यं नहुषात्मजः
अश्रुबिंदुमती यत्र जगाम लघुविक्रमः । तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम्
विशालां च महाराजः कंदर्पाकृष्टमानसः । राजोवाच- आगतोऽस्मि महाभागे विशाले चारुलोचने
जरात्यागःकृतो भद्रे तारुण्येन समन्वितः । युवा भूत्वा समायातो भवत्वेषा ममाधुना
यंयं हि वांछते चैषा तंतं दद्मि न संशयः । विशालोवाच- यदा भवान्समायातो जरां दुष्टां विहाय च
दोषेणैकेनलिप्तोसि भवंतं नैव मन्यते । राजोवाच- मम दोषं वदस्व त्वं यदि जानासि निश्चितम्
तं तु दोषं परित्यक्ष्येगुणरूपंनसंशयः
इति श्रीपद्मपुराणेभूमिखंडेवेनोपाख्यानेमातापितृतीर्थवर्णने ययातिचरितेऽष्टसप्ततितमोऽध्यायः
विशालोवाच- शर्मिष्ठा यस्य वै भार्या देवयानी वरानना । सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते
तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः । सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः
ससर्पोसि महाराज भूतले चंदनं यथा । सर्पैश्च वेष्टितो राजन्महाचंदन एव हि
तथा त्वं वेष्टितः सर्पैः सपत्नीनामसंज्ञकैः । वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम्