जरादुःखं न शक्नोमि नवे वयसि भूपते । कः समर्थो हि वै धर्तुं क्षमस्व त्वं ममाधुना
यदुं क्रुद्धो महाराजः शशाप द्विजनंदन । राज्यार्हो न च ते वंशः कदाचिद्वै भविष्यति
बलतेजः क्षमाहीनः क्षात्रधर्मविवर्जितः । भविष्यति न संदेहो मच्छासनपराङ्मुखः
यदुरुवाच- निर्दोषोहं महाराज कस्माच्छप्तस्त्वयाधुना । कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव
राजोवाच- महादेवः कुले ते वै स्वांशेनापि हि पुत्रक । करिष्यति विसृष्टिं च तदा पूतं कुलं तव
यदुरुवाच- अहं पुत्रो महाराज निर्दोषः शापितस्त्वया । अनुग्रहो दीयतां मे यदि मे वर्त्तते दया
राजोवाच- यो भवेज्ज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः । राज्यदायं सुभुंक्ते च भारवोढा भवेत्स हि
त्वया धर्मं न प्रवृत्तमभाष्योसि न संशयः । भवता नाशिताज्ञा मे महादंडेन घातिनः
तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु । यदुरुवाच- यस्मान्मे नाशितं राज्यं कुलं रूपं त्वया नृप
तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप । तव वंशे भविष्यंति नानाभेदास्तु क्षत्त्रियाः
तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै । भोक्ष्यंति च न संदेहो अतिचंडा महाबलाः
मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः । त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः
एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम । अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह
मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि । यावच्चंद्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः
तावन्म्लेच्छाः प्रपक्ष्यंते कुंभीपाके चरौ रवे । कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम्
समाह्वयति तं राजा न सुतं नृपनंदनम् । शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा
शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः । समाहूय बभाषे च जरा मे गृह्यतां पुनः
भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकंटकम् । पूरुरुवाच- राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव
त्वदादेशं करिष्यामि जरा मे दीयतां नृप । तारुण्येन ममाद्यैव भूत्वा सुंदररूपदृक्
भुंक्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा । यावदिच्छा महाभाग विहरस्व तया सह
यावज्जीवाम्यहं तात जरां तावद्धराम्यहम् । एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः
हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः । यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह
तस्मादहं विधास्यामि बहुसौख्यप्रदायकम् । यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम्
तेन राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते । एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते
तारुण्यंदत्तवानस्मै जग्राहास्माज्जरां नृप । ततः कृते विनिमये वयसोस्तातपुत्रयोः
तस्माद्वृद्धतरः पूरुः सर्वांगेषु व्यदृश्यत । नूतनत्वं गतो राजा यथा षोडशवार्षिकः
रूपेण महताविष्टो द्वितीय इव मन्मथः । धनूराज्यं च छत्रं च व्यजनं चासनं गजम्
कोशं देशं बलं सर्वं चामरं स्यंदनं तथा । ददौ तस्य महाराजः पूरोश्चैव महात्मनः
कामासक्तश्च धर्मात्मा तां नारीमनुचिंतयन् । तत्सरः सागरप्रख्यंकामाख्यं नहुषात्मजः
अश्रुबिंदुमती यत्र जगाम लघुविक्रमः । तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम्