एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम् । सुमतिं सुप्रियं कांतं मनसा वरमीप्सति
ययातिरुवाच- एवं गुणैः समुपेतं विद्धि मामिह चागतम् । अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः
विशालोवाच- भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये । पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि
एकेनापि च दोषेण त्वामेषा हि न मन्यते । एष मे संशयो जातो भवान्विष्णुमयो नृप
ययातिरुवाच- समाचक्ष्व महादोषं यमेषा नानुमन्यते । तत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव
विशालोवाच- आत्मदोषं न जानासि कस्मात्त्वं जगतीपते । जरया व्याप्तकायस्त्वमनेनेयं न मन्यते
एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः । दुःखेन महताविष्टस्तामुवाच पुनर्नृपः
जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा । समुद्भूतं ममांगे वै तं न जाने जरागमम्
यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभे । तमस्यै दातुकामोहं व्रियतां वर उत्तमः
विशालोवाच- जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् । एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम्
श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके । जरा संक्राम्यते यस्य तस्यांगे परिसंचरेत्
तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः । उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः
यथात्मदानपुण्यस्य कृपया यो ददाति च । फलं राजन्हि तत्तस्य जायते नात्र संशयः
दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते । सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते
पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च । प्रगृह्यैव समागच्छ सुंदरत्वेन भूपते
यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते । एवमाभाष्य सा भूपं विशाला विरराम ह
सुकर्मोवाच- एवमाकर्ण्य राजेंद्रो विशालामवदत्तदा । राजोवाच- एवमस्तु महाभागे करिष्ये वचनं तव
कामासक्तः समूढस्तु ययातिः पृथिवीपतिः । गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह
तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम् । कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात्
पुत्रा ऊचुः- पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम् । उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः
एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः । आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः
ययातिरुवाच- एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी । धीरेण भवतां मध्ये तारुण्यं मम दीयताम्
स्वकीयं हि महाभागाः स्वरूपमिदमुत्तमम् । संतप्तं मानसं मेद्य स्त्रियां सक्तं सुचंचलम्
भाजनस्था यथा आप आवर्त्तयति पावकः । तथा मे मानसं पुत्राः कामानलसुचालितम्
एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम् । स्वकं ददातु तारुण्यं यथाकामं चराम्यहम्
यो मे जरापसरणं करिष्यति सुतोत्तमः । स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति
तस्य सौख्यं सुसंपत्तिर्धनं धान्यं भविष्यति । विपुला संततिस्तस्य यशः कीर्तिर्भविष्यति
पुत्रा ऊचुः- भवान्धर्मपरो राजन्प्रजाः सत्येन पालकः । कस्मात्ते हीदृशो भावो जातः प्रकृतिचापलः
राजोवाच- आगता नर्तकाः पूर्वं पुरं मे हि प्रनर्तकाः । तेभ्यो मे कामसंमोहे जातो मोहश्च ईदृशः
जरया व्यापितः कायो मन्मथाविष्टमानसः । संबभूव सुतश्रेष्ठाः कामेनाकुलव्याकुलः