तेषां व्याधिप्रशमनं करोमि सुचिरादहम् । चतुरशीतिसंज्ञेयो व्याधिः संकथितो मया
स स व्याधिर्विनश्येत दर्शनादेव सुंदरि । न लिंगं वर्तते तत्र मामकं नगनंदिनि
स्नानमात्रं तु तत्रैव मामकं नात्र संशयः । एकस्मिन्नेव काले तु अस्यां भूमौ महातपाः
राजा वै सूर्यवंशीयो ब्रह्मदत्तस्तु वीर्यवान् । तेन राज्ञा तपस्तप्तं बहुकालं सुरेश्वरि
पंचाग्निसाधनं तेन कृतं च बहुधा ततः । मासोपवासकादीनि तपस्तप्तान्यनेकशः
एवं बहुतरं कालं राज्ञा तप्तं तपो महत् । प्रत्यक्षोऽहं तदा जातो वरार्थं वरवर्णिनि
ब्रह्मदत्त शृणुष्व त्वं महद्वाक्यं नरेश्वर । यं यं वांछयसे नित्यं तं तं दद्मि न संशयः
तेनोक्तं मम देवेश वांच्छितं यदि दीयते । एक एव वरो देव दीयतां मम सर्वदा
मम नाम्ना हि देवेश ईश्वरो भुवि जायताम् । तेन वाक्येन संतुष्टो वरो दत्तो मयाऽनघे
तदाहं तेन वै सार्द्धं निवसामि सुरेश्वरि । अत्र स्थित्वा निराहारो भक्तिं कुर्यादशेषतः
ददामि वांछितान्कामान्यावदिंद्राश्चतुर्दश । अत्रागत्य तु ये विप्रा रुद्रजाप्यादिकं च यत् 6.135.
प्रकुर्वंति विशेषेण तेषां दद्मि शृणुष्व तत् । स्त्रीसौख्यं पुत्रसौख्यं च लक्ष्मीवृद्धिकरं पुनः
श्रीमहादेव उवाच। कंबुतीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् । अर्चयेद्देवदेवेशं नारायणमनामयम्
दत्त्वा दानानि विधिवद् ब्रह्मणेभ्यो विधानतः । विष्णुलोकमवाप्नोति तीर्थस्यास्य प्रभावतः
अत्र राजर्षिणा पूर्वं विश्वामित्रेण धीमता । तपस्तप्तं विशेषेण प्रजाकामेन सुंदरि
वायुभक्षो निराहारो यत्रासीदनिलाशनः । विष्णुपूजापरो नित्यं विष्णुध्यानपरायणः
तपसानेन संजातः प्रजाकाममवाप्तवान् । प्रजाकामो नरो यश्च कंबुतीर्थं हि गच्छति
स प्रजां लभते नित्यं सत्यं सत्यं वरानने
इति कंबुतीर्थमाहात्म्यम् । ततो गच्छेत्सुरश्रेष्ठे तीर्थं नाम कपीश्वरम् । संनिधौ रक्तसिंहस्य महापातकनाशनम्
बध्यमाने पुरा सेतौ रामरावणविग्रहे । गृहीत्वा पर्वतश्रेष्ठं विशेषात्कपिभिः कृतम्
नाम्ना कपीश्वरादित्यं चक्रुस्तीर्थमनुत्तमम् । यत्र तीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम्
दृष्ट्वा कपीश्वरादित्यं मुच्यते ब्रह्महत्यया । तत्र स्नानं प्रकर्तव्यं चैत्राष्टम्यां विशेषतः
हनुमत्प्रमुखैस्तत्र स्नातं यत्र दिनत्रयम् । कपितीर्थप्रभावोऽयं भवत्यै समुदीरितः
अस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा कपीश्वरम् । रूपवान्बहुभोगश्च जायते नात्र संशयः
बलं वांछति यो लोको धर्मं वा पुत्रमेव च । सर्वं स तु लभेन्नित्यं कपितीर्थप्रभावतः
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर। संवादे कपितीर्थमाहात्म्यं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः
महादेव उवाच। ब्रह्मवल्ली महत्तीर्थं ततो गच्छेत्सुरेश्वरि । तस्य तीर्थस्य स्वरूपं साक्षाच्छृणु सुरोत्तम
यत्र साभ्रमती तोयं ब्रह्मवल्ल्यंभसा सह । युज्यते ब्रह्मतीर्थं तत्प्रयागेन समं स्मृतम्
तत्र पिंडप्रदानेन तृप्तिर्द्वादशवार्षिकी । पितॄणां जायते नूनं ब्रह्मणो वचनं यथा
गयाश्राद्धसमंपुण्यंब्रह्मवल्ल्यांविशेषतः । यत्रज्ञात्वाप्रकुर्वंतिपितरस्तृप्तिमाप्नुयुः