सत्याचारपराः सर्वे विष्णुध्यानपरायणाः । एवं सर्वे च मर्त्यास्ते प्रसादात्तस्य चक्रिणः
संजाता मानवाः सर्वे दानभोगपरायणाः । मृतो न श्रूयते लोके मर्त्यः कोपि नरोत्तम
शोकं नैव प्रपश्यंति दोषं नैव प्रयांति ते । यद्रूपं स्वर्गलोकस्य तद्रूपं भूतलस्य च
संजातं मानवश्रेष्ठ प्रसादात्तस्य चक्रिणः । विभ्रष्टा यमदूतास्ते विष्णुदूतैश्च ताडिताः
रुदमाना गताः सर्वे धर्मराजं परस्परम् । तत्सर्वं कथितं दूतैश्चेष्टितं भूपतेस्तु तैः
अमृत्युभूतलं जातं दानभोगेन भास्करे । नहुषस्यात्मजेनापि कृतं देवययातिना
विष्णुभक्तेन पुण्येन स्वर्गरूपं प्रदर्शितम् । एवमाकर्णितं सर्वं धर्मराजेन वै तदा
धर्मराजस्तदा तत्र दूतेभ्यः श्रुतविस्तरः । चिंतयामास सर्वार्थं श्रुत्वैवंनृपचेष्टितम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे पंचसप्ततितमोऽध्यायः
सुकर्मोवाच- सौरिर्दूतैस्तथा सर्वैः सह स्वर्गं जगाम सः । द्रष्टुं तत्र सहस्राक्षं देववृंदैः समावृतम्
धर्मराजं समायांतं ददर्श सुरराट्तदा । समुत्थाय त्वरायुक्तो दत्वा चार्घमनुत्तमम्
पप्रच्छागमनं तस्य कथयस्व ममाग्रतः । समाकर्ण्य महद्वाक्यं देवराजस्य भाषितम्
धर्मराजोऽब्रवीत्सर्वं ययातेश्चरितं महत् । धर्मराज उवाच- श्रूयतां देवदेवेश यस्मादागमनं मम
कथयाम्यहमत्रापि येनाहमागतस्तव । नहुषस्यात्मजेनापि वैष्णवेन महात्मना
वैष्णवाश्च कृता मर्त्या ये वसंति महीतले । वैकुंठस्य समं रूपं मर्त्यलोकस्य वै कृतम्
अमरा मानवा जाता जरारोगविवर्जिताः । पापमेव न कुर्वंति असत्यं न वदंति ते
कामक्रोधविहीनास्ते लोभमोहविवर्जिताः । दानशीला महात्मानः सर्वे धर्मपरायणाः
सर्वधर्मैः समर्चंति नारायणमनामयम् । तेन वैष्णवधर्मेण मानवा जगतीतले
निरामया वीतशोकाः सर्वे च स्थिरयौवनाः । दूर्वा वटा यथा देव विस्तारं यांति भूतले
तथा ते विस्तरं प्राप्ताः पुत्रपौत्रैः प्रपौत्रकैः । तेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशांतरं गताः
एवं हि वैष्णवः सर्वो जरामृत्युविवर्जितः । मर्त्यलोकः कृतस्तेन नहुषस्यात्मजेन वै
पदभ्रष्टोस्मि संजातो व्यापारेण विवर्जितः । एतत्सर्वं समाख्यातं मम कर्मविनाशनम्
एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु । एतत्ते सर्वमाख्यातं यथापृष्टोस्मि वै त्वया
एतस्मात्कारणादिंद्र आगतस्तव सन्निधौ । इंद्र उवाच- पूर्वमेव मया दूत आगमाय महात्मनः
प्रेषितो धर्मराजेंद्र दूतेनास्यापि भाषितम् । नाहं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः
स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमंडलम् । इत्याचचक्षे भूपालः प्रजापाल्यं करोति सः
तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदा । धर्म उवाच- येनकेनाप्युपायेन तमानय सुभूपतिम्
देवराज महाभाग यदीच्छसि मम प्रियम् । इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः
चिंतयामास मेधावी सर्वतत्वेन भूपते । कामदेवं समाहूय गंधर्वांश्च पुरंदरः
मकरंदं रतिं देव आनिनाय महामनाः । तथा कुरुत वै यूयं यथाऽगच्छति भूपतिः