हरिं मुरारिं प्रवदंति केशवं प्रीत्या जितं माधवमेव चान्ये । श्रीनारसिंहं कमलेक्षणं तं गोविंदमेकं कमलापतिं च
कृष्णं शरण्यं शरणं जपंति रामं च जप्यैः परिपूजयंति । दंडप्रणामैः प्रणमंति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे चतुःसप्ततितमोऽध्यायः
सुकर्मोवाच- विष्णुं कृष्णं हरिं रामं मुकुंदं मधुसूदनम् । नारायणं विष्णुरूपं नारसिंहं तमच्युतम्
केशवं पद्मनाभं च वासुदेवं च वामनम् । वाराहं कमठं मत्स्यं हृषीकेशं सुराधिपम्
विश्वेशं विश्वरूपं च अनंतमनघं शुचिम् । पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम्
श्रीनिवासं पीतवासं माधवं मोक्षदं प्रभुम् । इत्येवं हि समुच्चारं नामभिर्मानवाः सदा
प्रकुर्वंति नराः सर्वे बालवृद्धाः कुमारिकाः । स्त्रियो हरिं सुगायंति गृहकर्मरताः सदा
आसने शयने याने ध्याने वचसि माधवम् । क्रीडमानास्तथा बाला गोविंदं प्रणमंति ते
दिवारात्रौ सुमधुरं ब्रुवंति हरिनाम च । विष्णूच्चारो हि सर्वत्र श्रूयते द्विजसत्तम
वैष्णवेन प्रभावेण मर्त्या वर्तंति भूतले । प्रासादकलशाग्रेषु देवतायतनेषु च
यथा सूर्यस्य बिंबानि तथा चक्राणि भांति च । वैकुंठे दृश्यते भावस्तद्भावं जगतीतले
तेन राज्ञा कृतं विप्र पुण्यं चापि महात्मना । विष्णुलोकस्य समतां तथानीतं महीतलम्
नहुषस्यापि पुत्रेण वैष्णवेन ययातिना । उभयोर्लोकयोर्भावमेकीभूतं महीतलम्
भूतलस्यापि विष्णोश्च अंतरं नैव दृश्यते । विष्णूच्चारं तु वैकुंठे यथा कुर्वंति वैष्णवाः
भूतले तादृशोच्चारं प्रकुर्वंति च मानवाः । उभयोर्लोकयोर्विप्र एकभावः प्रदृश्यते
जरारोगभयं नास्ति मृत्युहीना नरा बभुः । दानभोगप्रभावश्च अधिको दृश्यते भुवि
पुत्राणां तु सुखं पुण्यमधिकं पौत्रजं नराः । प्रभुंजंति सुखेनापि मानवा भुवि सत्तम
विष्णोः प्रसाददानेन उपदेशेन तस्य च । सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवाः सदा
स्वर्गलोकप्रभावो हि कृतो राज्ञा महीतले । पंचविंशप्रमाणेन वर्षाणि नृपसत्तम
गदैर्हीना नराः सर्वे ज्ञानध्यानपरायणाः । यज्ञदानपराः सर्वे दयाभावाश्च मानवाः
उपकाररताः पुण्या धन्यास्ते कीर्तिभाजनाः । सर्वे धर्मपरा विप्र विष्णुध्यानपरायणाः
राज्ञा तेनोपदिष्टास्ते संजाता वैष्णवा भुवि । विष्णुरुवाच- श्रूयतां नृपशार्दूल चरित्रं तस्य भूपतेः
सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषिः । अब्दानां तत्र लक्षं हि तस्याप्येवं गतं भुवि
नूतनो दृश्यते कायः पंचविंशाब्दिको यथा । पंचविंशाब्दिको भाति रूपेण वयसा तदा
प्रबलः प्रौढिसंपन्नः प्रसादात्तस्य चक्रिणः । मानुषा भुवमास्थाय यमं नैव प्रयांति ते
रागद्वेषविनिर्मुक्ताः क्लेशपाशविवर्जिताः । सुखिनो दानपुण्यैश्च सर्वधर्मपरायणाः
विस्तारं तेजनाः सर्वे संतत्यापि गता नृप । यथा दूर्वावटाश्चैव विस्तारं यांति भूतले
यथा ते मानवाः सर्वे पुत्रपौत्रैः प्रविस्तृताः । मृत्युदोषविहीनास्ते चिरं जीवंति वै जनाः
स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः । पंचविंशाब्दिकाः सर्वे नरा दृश्यंति भूतले