तस्मिञ्शासति धर्मज्ञे ययातौ नृपतौ तदा । वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः
तद्ध्यानास्तद्गताः सर्वे संजाता भावतत्पराः । तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम
पताकाभिः सुशुक्लाभिः शंखयुक्तानि तानि वै । गदांकितध्वजाभिश्च नित्यं चक्रांकितानि च
पद्मांकितानि भासंते विमानप्रतिमानि च । गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः
सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सत्तमाः । वनानि संति दिव्यानि शाद्वलानि शुभानि च
तुलस्या च द्विजश्रेष्ठ तेषु केशवमंदिरैः । भासंते पुण्यदिव्यानि गृहाणि प्राणिनां सदा
सर्वत्र वैष्णवो भावो मंगलो बहु दृश्यते । शंखशब्दाश्च भूलोके मिथः स्फोटरवैः सखे
श्रूयंते तत्र विप्रेंद्र दोषपापविनाशकाः । शंखस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु
विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम । गीतरागसुवर्णैश्च मूर्च्छना तानसुस्वरैः
गायंति केशवं लोका विष्णुध्यानपरायणाः
हरिं मुरारिं प्रवदंति केशवं प्रीत्या जितं माधवमेव चान्ये । श्रीनारसिंहं कमलेक्षणं तं गोविंदमेकं कमलापतिं च
कृष्णं शरण्यं शरणं जपंति रामं च जप्यैः परिपूजयंति । दंडप्रणामैः प्रणमंति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे चतुःसप्ततितमोऽध्यायः
सुकर्मोवाच- विष्णुं कृष्णं हरिं रामं मुकुंदं मधुसूदनम् । नारायणं विष्णुरूपं नारसिंहं तमच्युतम्
केशवं पद्मनाभं च वासुदेवं च वामनम् । वाराहं कमठं मत्स्यं हृषीकेशं सुराधिपम्
विश्वेशं विश्वरूपं च अनंतमनघं शुचिम् । पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम्
श्रीनिवासं पीतवासं माधवं मोक्षदं प्रभुम् । इत्येवं हि समुच्चारं नामभिर्मानवाः सदा
प्रकुर्वंति नराः सर्वे बालवृद्धाः कुमारिकाः । स्त्रियो हरिं सुगायंति गृहकर्मरताः सदा
आसने शयने याने ध्याने वचसि माधवम् । क्रीडमानास्तथा बाला गोविंदं प्रणमंति ते
दिवारात्रौ सुमधुरं ब्रुवंति हरिनाम च । विष्णूच्चारो हि सर्वत्र श्रूयते द्विजसत्तम
वैष्णवेन प्रभावेण मर्त्या वर्तंति भूतले । प्रासादकलशाग्रेषु देवतायतनेषु च
यथा सूर्यस्य बिंबानि तथा चक्राणि भांति च । वैकुंठे दृश्यते भावस्तद्भावं जगतीतले
तेन राज्ञा कृतं विप्र पुण्यं चापि महात्मना । विष्णुलोकस्य समतां तथानीतं महीतलम्
नहुषस्यापि पुत्रेण वैष्णवेन ययातिना । उभयोर्लोकयोर्भावमेकीभूतं महीतलम्
भूतलस्यापि विष्णोश्च अंतरं नैव दृश्यते । विष्णूच्चारं तु वैकुंठे यथा कुर्वंति वैष्णवाः
भूतले तादृशोच्चारं प्रकुर्वंति च मानवाः । उभयोर्लोकयोर्विप्र एकभावः प्रदृश्यते
जरारोगभयं नास्ति मृत्युहीना नरा बभुः । दानभोगप्रभावश्च अधिको दृश्यते भुवि
पुत्राणां तु सुखं पुण्यमधिकं पौत्रजं नराः । प्रभुंजंति सुखेनापि मानवा भुवि सत्तम
विष्णोः प्रसाददानेन उपदेशेन तस्य च । सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवाः सदा
स्वर्गलोकप्रभावो हि कृतो राज्ञा महीतले । पंचविंशप्रमाणेन वर्षाणि नृपसत्तम