यस्य प्रसादभावाद्वै सुखमश्नाति केवलम् । शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान्
एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक । संभवंति महादुष्टा व्याधयो दुःखदायकाः
मातले किल्बिषाच्चैव जरादोषात्प्रजायते । पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम्
जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च । तथापि नूतनो भावः कायस्यापि प्रजायते
मम कालो गतो दूत अब्दा प्रनंत्यमनुत्तमम् । यथा षोडशवर्षस्य कायः पुंसः प्रशोभते
तथा मे शोभते देहो बलवीर्यसमन्वितः । नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा
मातले मम कायेपि धर्मोत्साहेन वर्द्धते । सर्वामृतमयं दिव्यमौषधं परमौषधम्
पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा । तेन मे शोधितः कायो गतदोषस्तु जायते
हृषीकेशस्य संध्यानं नामोच्चारणमुत्तमम् । एतद्रसायनं दूत नित्यमेवं करोम्यहम्
तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः । विद्यमाने हि संसारे कृष्णनाम्नि महौषधे
मानवा मरणं यांति पापव्याधि प्रपीडिताः । न पिबंति महामूढाः कृष्ण नाम रसायनम्
तेन ध्यानेन ज्ञानेन पूजाभावेन मातले । सत्येन दानपुण्येन मम कायो निरामयः
पापर्द्धेरामयाः पीडाः प्रभवंति शरीरिणः । पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः
तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः । पंचभूतात्मकः कायः शिरासंधिविजर्जरः
एवं संधीकृतो मर्त्यो हेमकारीव टंकणैः । तत्र भाति महानग्निर्द्धातुरेव चरः सदा
शतखंडमये विप्र यः संधत्ते सबुद्धिमान् । हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल
पंचात्मका हि ये खंडाः शतसंधिविजर्जराः । तेन संधारिताः सर्वे कायो धातुसमो भवेत्
हरेः पूजोपचारेण ध्यानेन नियमेन च । सत्यभावेन दानेन नूत्नः कायो विजायते
दोषा नश्यंति कायस्य व्याधयः शृणु मातले । बाह्याभ्यंतरशौचं हि दुर्गंधिर्नैव जायते
शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः । नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम्
तपसा चैव भावेन स्वधर्मेण महीतलम् । स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः
एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरंदरम् । सुकर्मोवाच- समाकर्ण्य ततः सूतो नृपतेः परिभाषितम्
आशीर्भिरभिनंद्याथ आमंत्र्य नृपतिं गतः । सर्वं निवेदयामास इंद्राय च महात्मने
समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः । तस्याथ चिंतयामासानयनार्थं दिवं प्रति
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरिते द्विसप्ततितमोऽध्यायः
पिप्पल उवाच- गते तस्मिन्महाभागे दूत इंद्रस्य वै पुनः । किं चकार स धर्मात्मा ययातिर्नहुषात्मजः
सुकर्मोवाच- तस्मिन्गते देववरस्य दूते स चिंतयामास नरेंद्रसूनुः । आहूय दूतान्प्रवरान्स सत्वरं धर्मार्थयुक्तं वच आदिदेश
गच्छंतु दूताः प्रवराः पुरोत्तमे देशेषु द्वीपेष्वखिलेषु लोके । कुर्वंतु वाक्यं मम धर्मयुक्तं व्रजंतु लोकाः सुपथा हरेश्च
भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिः । यज्ञैश्च दानैर्मधुसूदनैकमर्चंतु लोका विषयान्विहाय
सर्वत्र पश्यंत्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषु । अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपम्