गंधर्वाणां च वायव्यं याक्षं च सकलं स्मृतम् । पांचभौतिकमिंद्रस्य चत्वारिंशद्गुणं महत्
सोमस्य मानसं दिव्यं विश्वेशं पांचभौतिकम् । सौम्यं प्रजापतीशानामहंकारगुणाधिकम्
चतुष्षष्टिगुणं ब्राह्मं बौधमैश्वर्यमुत्तमम् । विष्णोः प्राधानिकं तंत्रमैश्वर्यं ब्रह्मणः पदम्
श्रीमच्छिवपुरे दिव्ये ऐश्वर्यं सर्वकामिकम् । अनंतगुणमैश्वर्यं शिवस्यात्मगुणं महत्
आदिमध्यांतरहितं विशुद्धं तत्त्वलक्षणम् । सर्वावभासकं सूक्ष्ममनौपम्यं परात्परम्
सुसंपूर्णं जगद्वेषं पशुपाशाविमोक्षणम् । यो यत्स्थानमनुप्राप्तस्तस्य भोगस्तदात्मकः
विमानं तत्समानं च भवेदीशप्रसादतः । नानारूपाणि ताराणां दृश्यंते कोटयस्त्विमा
अष्टविंशतिरेवं ते संदीप्ताः सुकृतात्मनाम् । ये कुर्वंति नमस्कारमीश्वराय क्वचित्क्वचित्
संपर्कात्कौतुकाल्लोभात्तद्विमानं लभंति ते । नामसंकीर्तनाद्वापि प्रसंगेन शिवस्य यः
कुर्याद्वापि नमस्कारं न तस्य विलयो भवेत् । इत्येता गतयस्तत्र महत्यः शिवकर्मणि
कर्मणाभ्यंतरेणापि पुंसामीशानभावतः । प्रसंगेनापि ये कुर्युः शंकरस्मरणं नराः
तैर्लभ्यं त्वतुलं सौख्यं किं पुनस्तत्परायणैः । विष्णुचिंतां प्रकुर्वंति ध्यानेन गतमानसाः
ते यांति परमं स्थानं तद्विष्णोः परमं पदम् । शैवं च वैष्णवं रूपमेकरूपं नरोत्तम
द्वयोश्च अंतरं नास्ति एकरूपमहात्मनोः । शिवाय विष्णुरूपाय शिवरूपाय विष्णवे
शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः । एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः
त्रयाणामंतरं नास्ति गुणभेदाः प्रकीर्तिताः । शिवभक्तोसि राजेंद्र तथा भागवतोसि वै
तेन देवाः प्रसन्नास्ते ब्रह्मविष्णुमहेश्वराः । सुप्रीता वरदा राजन्कर्मणस्तव सुव्रत
इंद्रादेशात्समायातः सन्निधौ तव मानद । ऐंद्रमेनं पदं याहि पश्चाद्ब्राह्मं महेश्वरम्
वैष्णवं च प्रयाहि त्वं दाहप्रलयवर्जितम् । अनेनापि विमानेन दिव्येन सर्वगामिना
दिव्यमूर्तिरतो भुंक्ष्व दिव्यभोगान्मनोरमान् । समारुह्य विमानं त्वं पुष्पकं सुखगामिनम्
सुकर्मोवाच- एवमुक्त्वा द्विजश्रेष्ठ मौनवान्मातलिस्तदा । राजानं धर्मतत्त्वज्ञं ययातिं नहुषात्मजम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकसप्ततितमोऽध्यायः
पिप्पल उवाच- मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः । किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद
सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी । श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा
सुकर्मोवाच- सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः । तमुवाचागतं दूतं मातलिं शक्रसारथिम्
ययातिरुवाच- शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः । शरीरेण विना दूत पार्थिवेन न संशयः
यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः । पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम्
नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः । इत्याचक्ष्व इतो गत्वा देवदेवं पुरंदरम्
एकाकिना हि जीवेन कायेनापि महामते । नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि
नैव प्राणं विना कायो जीवः कायं विना नहि । उभयोश्चापि मित्रत्वं नयिष्ये नाशमिंद्र न