रुद्रलोकमिति प्रोक्तमशेषगुणसंयुतम् । सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम्
रुद्रक्षेत्रे मृतानां च जंगमस्थावरात्मनाम् । अप्येकदिवसं भक्त्या यः पूजयति शंकरम्
सोपि याति शिवस्थानं किं पुनर्बहुशोर्चयन् । वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः
तेपि गच्छंति वैकुंठे समीपं देवचक्रिणः । ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः
पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च । तस्मादीशे सदा भक्तिं भावयेदात्मनात्मनि
हरौ वापि महाराज युक्तात्मा ज्ञानवान्स्वयम् । तस्मात्सर्वविचारेण भावदोषविचारतः
एवं विष्णुप्रभावेण विशिष्टेनापि कर्मणा । नरः स्थानमवाप्येतदेशभावानुरूपतः
इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत् । देहिनां कर्मनिष्ठानां पुनरावर्त्तकं स्मृतम्
ऊर्ध्वं शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम् । वैष्णवा मानवा यांति विष्णुध्यानपरायणाः
ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः । प्रयांति यज्विनः सर्वे पुरीं तां तत्त्वकोविदाः
ऐंद्रं लोकं तथा यांति क्षत्रिया युद्धशालिनः । अन्ये च पुण्यकर्त्तारः पुण्यलोकान्प्रयांति ते
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थे ययातिचरिते एकोनसप्ततितमोऽध्यायः
मातलिरुवाच- यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणाम् । भुंजंति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः
क्वचित्पापाः प्रपच्यंते तीव्रेण करिषाग्निना । क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशैः कीटैश्च दारुणैः
क्वचिन्महाजलौकोभिः क्वचिदाजगरैः पुनः । मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः
मत्तमातंगयूथैश्च बलोत्कृष्टैः प्रमाथिभिः । पंथानमुल्लिखद्भिश्च तीक्ष्णशृंगमहावृषैः
महाशृंगैश्च महिषैर्दुष्टगात्रप्रबाधकैः । डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति ते । महातुलां समारूढा दह्यमाना दवानले
महावेगप्रधूतास्ते महाचंडेन वायुना । महापाषाणवर्षेण भिद्यमानाश्च सर्वतः
पतद्भिर्वज्रनिर्घोषैरुल्कापातैश्च दारुणैः । प्रदीप्तांगारवर्षेण हन्यमाना व्रजंति ते
महता पांसुवर्षेण पूर्यमाणा यमं गताः । ये नराः पापकर्माणः पापं भुंजंति दारुणम्
एवं पापविशेषेण पापिष्ठाः पापकारकाः । नरकं प्रतिभुंजंति बहुपीडासमाकुलम्
एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः । अन्यत्किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरिते सप्ततितमोऽध्यायः
ययातिरुवाच- यत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम् । शृण्वतोऽथ मम श्रद्धा पुनरेव प्रवर्तते
देवानां लोकसंस्थानां वद संख्याः प्रकीर्तिताः । यस्य पुण्यप्रसंगेन येन प्राप्तं च मातले
मातलिरुवाच- योगयुक्तं प्रवक्ष्यामि तपसा यदुपार्जितम् । देवानां लोकसंस्थानं सुखभोगप्रदायकम्
धर्मभावं प्रवक्ष्यामि आयासैरर्जितं पृथक् । उपरिष्टाच्च लोकानां स्वरूपं चाप्यनुक्रमात्
तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनाम् । तस्मात्सद्यो गतानां च नराणां तत्समं स्मृतम्
रक्षसां षोडशगुणं पार्थिवानां च तद्विधम् । एवं निरवशेषं च यच्छेषं कुलतेजसाम्