जंबूद्वीपं महापुण्यं यत्र पुण्यं विवर्द्धते । तत्रार्याख्यं महापुण्यं सर्वकामफलप्रदम्
नीलकंठमिति ख्यातं तीर्थं नंदह्रदस्तथा । तथा रुद्रह्रदस्तीर्थं पुण्यं रुद्र महालयम्
मंदाकिनी महापुण्या तथाच्छोदा महानदी । साभ्रमत्यां वहंत्येते स्वात्मना दर्शनीकृते
धूम्रा मित्रपदं तद्वद्वैजनाथं दृषद्वरम् । क्षिप्रा नदी महाकालं तथा कालिंजरो गिरिः
गंगोद्भूतं हरोद्भेदं नर्मदाकारमेव च । गंगापिंडप्रदानेन समान्याहुर्मनीषिणः
एतानि ब्रह्मतीर्थानि साभ्रमत्युत्तरे तटे । गुप्तीकृतानि देवेशि देवैर्ब्रह्मपुरोगमैः
स्मरणादपि लोकानां पापघ्नानि महेश्वरि । किं पुनः श्राद्धदातॄणां मानवानां सुरेश्वरि
ॐकारं पितृतीर्थं च कावेरी कपिलोदकम् । संभेदश्चंडवेगायास्तथैवामरकंटकम्
कुरुक्षेत्राच्छतगुणमस्मिन्स्नानादिकं भवेत् । वार्तघ्नीसंगमे देवि गणेश्वरपुरःसरम्
साभ्रमत्यां पुरा नीतं गणैस्तीर्थकदंकबम् । एष तूद्देशतः प्रोक्तस्तीर्थानां संगमो मया
वागीशापि न शक्नोति तीर्थानां तत्वविस्तरम् । सत्यं तीर्थं दयातीर्थं तीर्थमिंद्रियविग्रहः
तस्यास्तीर्थे प्रयत्नेन स्नानं कुर्यान्न संशयः । प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु
तदा स्नानादिकं तीर्थे देवानां प्रीतिदायकम् । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्
पितॄणां प्रीतिजननं स्नानपिंडादि तर्पणम् । सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु । अह्नो मुहूर्ता विख्याता दशपंच च सर्वदा
तत्राष्टमो मुहूर्तो यः स कालः कुतुपः स्मृतः । मध्याह्ने सर्वदा यस्मान्मंदी भवति भास्करः
तस्मादनंतफलदः पितॄणां पिंडदानतः । मध्याह्नः खङ्गपात्रं च तथा नेपालकंबलः
रूप्यं दर्भास्तथा गावो दौहित्रं कुतपास्तिलाः । पापं कुत्सितमित्याहुस्तस्य संतापकारकाः
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः । ऊर्द्ध्वं मुहूर्तात्कुतुपात्यन्मुहूर्त चतुष्टयम्
महूर्तपंचकं चैतच्छ्राद्धकाले समिष्यते । विष्णोर्देहात्समुद्भूताः कुशाः कृष्णतिलाः स्मृताः
श्राद्धस्य रक्षणार्थाय एवमाहुर्दिवौकसः । तिलोदकांजलिर्देयो जलस्थैस्तीर्थवासिभिः
सदर्भहस्तैरेकेन श्राद्धमेवं न हिंस्यते । साभ्रमत्यां नामधेयैरिति तीर्थप्रवेशनम्
कारयित्वा मया देवि दत्ता वै कश्यपाय च । मम भक्तः कश्यपोसौ वल्लभो मम सर्वदा
दत्ता तस्मादियं गंगा पवित्रा पापनाशिनी । साभ्रमत्यां महाभागे तीर्थे वै ब्रह्मचारिके
आत्मानं च प्रतिष्ठाप्य तन्नाम्ना शंकरो ह्यहम् । स्थितो लोकहितार्थाय ब्रह्मचारीश संज्ञकः
साभ्रमत्यामुपकंठे ब्रह्मचारीश संज्ञके । कलौ भक्तो विशेषेण पूजनं कुरुते यदा
इहलोके सुखं भुक्त्वा याति शैवं पदं महत् । महद्भिर्व्याधिभिश्चैव पीडितो यदि गच्छति
यस्याशु नश्यति व्याधिर्दर्शनाच्च महेश्वरि । गत्वा वै तस्य संस्थाने उपवासी जितेंद्रियः
पूजनं कुरुते भक्त्या रात्रौ तिष्ठन्सुनिश्चलः । तदाहं योगिरूपेण दर्शनं तस्य यामि हि
ददामि वांच्छितान्कामान्सत्यं सत्यं वरानने । ममस्थाने विशेषेण समायांति च ये जनाः