तूलं सूक्ष्माणिवस्त्राणि ये लोभेन हरंति च । एवमादीनि चान्यानि द्रव्याणि विविधानि च
नरकेषु द्रुतं गच्छेदपहृत्याल्पकान्यपि । यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम्
अपहृत्य नरो याति नरके नात्र संशयः । बह्वल्पकाद्यपि तथा परस्य ममताकृतम्
अपहृत्य नरो याति नरके नात्र संशयः । एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम्
शरीरघातनार्थाय पूर्वाकारमवाप्नुयात् । यमलोकं व्रजंत्येते शरीरस्था यमाज्ञया
यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः । देवतिर्यङ्मनुष्याणामधर्मनियतात्मनाम्
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः । विनयाचारयुक्तानां प्रमादान्मलिनात्मनाम्
प्रायश्चित्तैर्गुरुः शास्ता न च तैरीक्ष्यते यमः । पारदारिकचौराणामन्यायव्यवहारिणाम्
नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट् । तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत्
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि । यः करोति स्वयं कर्म कारयेद्वानुमोदयेत्
कायेन मनसा वाचा तस्य चाधोगतिः फलम् । इति संक्षेपतः प्रोक्ताः पापभेदास्त्रिधाधुना
कथ्यंते गतयश्चित्रा नराणां पापकर्मणाम् । एतत्ते नृपते धर्म फलं प्रोक्तं सुविस्तरात्
अन्यत्किंते प्रवक्ष्यामि तन्मे ब्रूहि नरोत्तम । अधर्मस्य फलं प्रोक्तं धर्मस्यापि वदाम्यहम्
इत्युक्त्वा मातलिस्तत्र राजानं सर्ववत्सलम् । तस्मिन्धर्मप्रसंगेन इत्याख्यातं महात्मना
ययातिरुवाच- अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो । धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम
मातलिरुवाच- अथ पापैरिमे यांति यमलोकं चतुर्विधाः । संत्रासजननं घोरं विवशाः सर्वदेहिनः
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः । पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं जंतुभिस्ततः
शुभाशुभफलं तत्र देहिनां प्रविचार्यते । चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः
न तेत्र प्राणिनः संति ये न यांति यमक्षयम् । अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम्
ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः । ते नरा यांति सौम्येन पथा यमनिकेतनम्
यः प्रदद्याच्च विप्राणामुपानत्काष्ठपादुके । स विमानेन महता सुखं याति यमालयम्
छत्रदानेन गच्छंति पथा साभ्रेण देहिनः । दिव्यवस्त्रपरीधाना यांति वस्त्रप्रदायिनः
शिबिकायाः प्रदानेन विमानेन सुखं व्रजेत् । सुखासनप्रदानेन सुखं यांति यमालयम्
आरामकर्ता छायासु शीतलासु सुखं व्रजेत् । यांति पुष्पकयानेन पुष्पारामप्रदायिनः
देवायतनकर्ता च यतीनामाश्रमस्य च । अनाथमंडपानां च क्रीडन्याति गृहोत्तमैः
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः
विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम् । तत्सर्वकामान्समुपैति लोके श्राद्धे च दानं प्रवदंति संतः
श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकम् । यत्पात्रादि चतुष्टयं श्रद्धा तेषु सदा मम
श्रद्धीयते सदा तस्माच्छ्रद्धायास्तत्फलं भवेत् । गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि
स प्रयाति सर्वकामं स्थानं पैतामहं नृप । श्रद्धयायेन विप्राय दत्तं काकिणिमात्रकम्