नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः । प्रव्रज्यागमिता यैश्च संयुक्ता ये च मद्यपैः
ये चापि क्षयरोगार्तां गां पिपासा क्षुधातुराम् । न पालयंति यत्नेन ते गोघ्ना नारकाः स्मृताः
सर्वपापरता ये च चतुष्पात्क्षेत्रभेदकाः । साधून्विप्रान्गुरूंश्चैव यश्च गां हि प्रताडयेत्
ये ताडयंत्यदोषां च नारीं साधुपदेस्थिताम् । आलस्यबद्धसर्वांगो यः स्वपिति मुहुर्मुहुः
दुर्बलांश्च न पुष्णंति नष्टान्नान्वेषयंति च । पीडयंत्यतिभारेण सक्षतान्वाहयंति च
सर्वपापरता ये च संयुक्ता ये च भुंजते । भग्नांगीं क्षतरोगार्तां गोरूपां च क्षुधातुराम्
न पालयंति यत्नेन ते जना नारकाः स्मृताः । वृषाणां वृषणौ ये च पापिष्ठा घातयंति च
बाधयंति च गोवत्सान्महानारकिणो नराः । आशया समनुप्राप्तं क्षुत्तृषाश्रमपीडितम्
ये चातिथिं न मन्यंते ते वै निरयगामिनः । अनाथं विकलं दीनं बालं वृद्धं भृशातुरम्
नानुकंपंति ये मूढास्ते यांति नरकार्णवम् । अजाविको माहिषिको यः शूद्रा वृषलीपतिः
शूद्रो विप्रस्य क्षत्रस्य य आचारेण वर्तते । शिल्पिनः कारवो वैद्यास्तथा देवलका नराः
भृतकामात्यकर्माणः सर्वे निरयगामिनः । यश्चोदितमतिक्रम्य स्वेच्छया आहरेत्करम्
नरकेषु स पच्येत यश्च दंडं वृथा नयेत् । उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते
यस्य राज्ञः प्रजा राज्ये पच्यते नरकेषु सः । ये द्विजाः प्रतिगृह्णंति नृपस्य पापवर्तिनः
प्रयांति तेपि घोरेषु नरकेषु न संशयः । पारदारिकचौराणां यत्पापं पार्थिवस्य च
भवत्यरक्षतो घोरो राज्ञस्तस्य परिग्रहः । अचौरं चौरवद्यश्च चौरं चाचौरवत्पुनः
अविचार्य नृपः कुर्यात्सोऽपि वै नरकं व्रजेत् । घृततैलान्नपानादि मधुमांस सुरासवम्
गुडेक्षुक्षीरशाकादि दधिमूलफलानि च । तृणकाष्ठं पुष्पपत्रं कांस्यभाजनमेव च
उपानच्छत्रकटक शिबिकामासनं मृदु । ताम्रं सीसं त्रपुकांस्यं शंखाद्यं च जलोद्भवम्
वादित्रं वेणुवंशाद्यं गृहोपस्करणानि च । ऊर्णाकार्पासकौशेय रंगपद्मोद्भवानि च
तूलं सूक्ष्माणिवस्त्राणि ये लोभेन हरंति च । एवमादीनि चान्यानि द्रव्याणि विविधानि च
नरकेषु द्रुतं गच्छेदपहृत्याल्पकान्यपि । यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम्
अपहृत्य नरो याति नरके नात्र संशयः । बह्वल्पकाद्यपि तथा परस्य ममताकृतम्
अपहृत्य नरो याति नरके नात्र संशयः । एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम्
शरीरघातनार्थाय पूर्वाकारमवाप्नुयात् । यमलोकं व्रजंत्येते शरीरस्था यमाज्ञया
यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः । देवतिर्यङ्मनुष्याणामधर्मनियतात्मनाम्
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः । विनयाचारयुक्तानां प्रमादान्मलिनात्मनाम्
प्रायश्चित्तैर्गुरुः शास्ता न च तैरीक्ष्यते यमः । पारदारिकचौराणामन्यायव्यवहारिणाम्
नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट् । तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत्
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि । यः करोति स्वयं कर्म कारयेद्वानुमोदयेत्