ब्राह्मणं यः समाहूय याचमानमकिंचनम् । पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा नृप
यस्तु विद्याभिमानेन निस्तेजयति वै द्विजम् । उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः
मिथ्यागुणैरथात्मानं नयत्युत्कर्षतां पुनः । गुरुं विरोधयेद्यस्तु स च वै ब्रह्महा स्मृतः
क्षुत्तृषातप्तदेहानामन्नभोजनमिच्छताम् । यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम्
पिशुनः सर्वलोकानां रंध्रान्वेषणतत्परः । उद्वेजनकरः क्रूरः स च वै ब्रह्महा स्मृतः
देवद्विज गवां भूमिं पूर्वदत्तां हरेत्तु यः । प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम्
द्विजवित्तापहरणं न्यासेन समुपार्जितम् । ब्रह्महत्यासमं ज्ञेयं तस्य पातकमुत्तमम्
अग्निहोत्रं परित्यज्य पंचयज्ञीयकर्मणि । मातापित्रोर्गुरूणां च कूटसाक्ष्यं च यश्चरेत्
अप्रियं शिवभक्तानामभक्ष्याणां च भक्षणम् । वने निरपराधानां प्राणिनां च प्रमारणम्
गवां गोष्ठे वने चाग्नेः पुरे ग्रामे च दीपनम् । इति पापानि घोराणि सुरापानसमानि तु
दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम् । गोभूरजतवस्त्राणामोषधीनां रसस्य च
चंदनागुरुकर्पूर कस्तूरी पट्ट वाससाम् । परन्यासापहरणं रुक्मस्तेयसमं स्मृतम्
कन्याया वरयोग्याया अदानं सदृशे वरे । पुत्रमित्रकलत्रेषु गमनं भगिनीषु च
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् । सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम्
महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपपातकम्
द्विजायार्थं प्रतिज्ञाय न प्रयच्छति यः पुनः । तत्र विस्मरते विप्रस्तुल्यं तदुपपातकम्
द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमम् । अतिमानातिकोपश्च दांभिकत्वं कृतघ्नता
अन्यत्र विषयासक्तिः कार्पर्ण्यं शाठ्यमत्सरम् । परदाराभिगमनं साध्वीकन्याभिदूषणम्
परिवित्तिः परिवेत्ता यया च परिविद्यते । तयोर्दानं च कन्यायास्तयोरेव च याजनम्
पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा । भार्याणां च परित्यागः साधूनां च तपस्विनाम्
गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च घातनम् । शिवायतनवृक्षाणां पुण्याराम विनाशनम्
यः पीडामाश्रमस्थानामाचरेदल्पिकामपि । तद्भृत्यपरिवर्गस्य पशुधान्यवनस्य च
कर्ष धान्य पशुस्तेयमयाज्यानां च याजनम् । यज्ञारामतडागानां दारापत्यस्य विक्रयः
तीर्थयात्रोपवासानां व्रतानां च सुकर्मणाम् । स्त्रीधनान्युपजीवंति स्त्रीभगात्यंतजीविता
स्वधर्मं विक्रयेद्यस्तु अधर्मं वर्णते नरः । परदोषप्रवादी च परच्छिद्रावलोककः
परद्रव्याभिलाषी च परदारावलोककः । एते गोघ्नसमानाश्च ज्ञातव्या नृपनंदन
यः कर्ता सर्वशास्त्राणां गोहर्ता गोश्च विक्रयी । निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः
मिथ्या प्रवदते वाचमाकर्णयति यः परैः । स्वामिद्रोही गुरुद्रोही मायावी चपलः शठः
यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् । भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नाति बुभुक्षितान्
ये तु मृष्टं समश्नंति नो वांच्छंतं ददंति च । पृथक्पाकी स विज्ञेयो ब्रह्मवादिषु गर्हितः