हरिज्ञानं यथाक्षेमं प्रत्यक्षाच्च प्रकाशयेत् । अधीते च समर्थश्च यः प्रमादं करोति च
अशुचिश्चाशुचौ स्थाने यः प्रवक्ति शृणोति च । इति सर्वं समासेन ज्ञाननिंदा समं स्मृतम्
गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति । न करोति च शुश्रूषामाज्ञाभंगं च भावतः
नाभिनंदति तद्वाक्यमुत्तरं संप्रयच्छति । गुरुकर्मणि साध्ये च तदुपेक्षां करोति च
गुरुमार्तमशक्तं च विदेशं प्रस्थितं तथा । अरिभिः परिभूतं वा यः संत्यजति पापकृत्
पठमानं पुराणं तु तस्य पापं वदाम्यहम् । कुंभीपाके वसेत्तावद्यावदिंद्राश्चतुर्दश
पठमानं गुरुं यो हि उपेक्षयति पापधीः । तस्यापि पातकं घोरं चिरं नरकदायकम्
भार्यापुत्रेषु मित्रेषु यश्चावज्ञां करोति च । इत्येतत्पातकं ज्ञेयं गुरुनिन्दासमं महत्
ब्रह्महा स्वर्णस्तेयी च सुरापी गुरुतल्पगः । महापातकिनश्चैते तत्संयोगी च पंचमः
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य विशेषतः । मर्मातिकृन्तको यश्च ब्रह्मघ्नः स प्रकीर्तितः
ब्राह्मणं यः समाहूय याचमानमकिंचनम् । पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा नृप
यस्तु विद्याभिमानेन निस्तेजयति वै द्विजम् । उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः
मिथ्यागुणैरथात्मानं नयत्युत्कर्षतां पुनः । गुरुं विरोधयेद्यस्तु स च वै ब्रह्महा स्मृतः
क्षुत्तृषातप्तदेहानामन्नभोजनमिच्छताम् । यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम्
पिशुनः सर्वलोकानां रंध्रान्वेषणतत्परः । उद्वेजनकरः क्रूरः स च वै ब्रह्महा स्मृतः
देवद्विज गवां भूमिं पूर्वदत्तां हरेत्तु यः । प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम्
द्विजवित्तापहरणं न्यासेन समुपार्जितम् । ब्रह्महत्यासमं ज्ञेयं तस्य पातकमुत्तमम्
अग्निहोत्रं परित्यज्य पंचयज्ञीयकर्मणि । मातापित्रोर्गुरूणां च कूटसाक्ष्यं च यश्चरेत्
अप्रियं शिवभक्तानामभक्ष्याणां च भक्षणम् । वने निरपराधानां प्राणिनां च प्रमारणम्
गवां गोष्ठे वने चाग्नेः पुरे ग्रामे च दीपनम् । इति पापानि घोराणि सुरापानसमानि तु
दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम् । गोभूरजतवस्त्राणामोषधीनां रसस्य च
चंदनागुरुकर्पूर कस्तूरी पट्ट वाससाम् । परन्यासापहरणं रुक्मस्तेयसमं स्मृतम्
कन्याया वरयोग्याया अदानं सदृशे वरे । पुत्रमित्रकलत्रेषु गमनं भगिनीषु च
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् । सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम्
महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपपातकम्
द्विजायार्थं प्रतिज्ञाय न प्रयच्छति यः पुनः । तत्र विस्मरते विप्रस्तुल्यं तदुपपातकम्
द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमम् । अतिमानातिकोपश्च दांभिकत्वं कृतघ्नता
अन्यत्र विषयासक्तिः कार्पर्ण्यं शाठ्यमत्सरम् । परदाराभिगमनं साध्वीकन्याभिदूषणम्
परिवित्तिः परिवेत्ता यया च परिविद्यते । तयोर्दानं च कन्यायास्तयोरेव च याजनम्
पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा । भार्याणां च परित्यागः साधूनां च तपस्विनाम्