एकस्मै दीयते दानमन्येभ्योपि न दीयते । एतच्च पातकं घोरं दानभ्रंशकरं स्मृतम्
यजमानगृहे सेवा संस्थितान्ब्राह्मणान्निजान् । परित्यज्य हि यद्दानं न दानस्य च लक्षणम्
समाश्रितं हि यं विप्रं धर्माचारसमन्वितम् । सर्वोपायैः सुपुष्येत्तं सुदानैर्बहुभिर्नृप
न गणयेन्मूर्खं विद्वांसं पोष्यो विप्रः सदा भवेत् । सर्वैः पुण्यैः समायुक्तं सुदानैर्बहुभिर्नृप
तं समभ्यर्च्य विद्वांसं प्राप्तं विप्रं सदार्हयेत् । तं हि त्यक्त्वा ददेद्दानमन्यस्मै ब्राह्मणाय वै
दत्तं हुतं भवेत्तस्य निष्फलं नात्र संशयः । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि चतुर्थकः
पुण्यकालेषु सर्वेषु संश्रितं पूजयेद्द्विजम् । मूर्खं वापि हि विद्वांसं तस्य पुण्यफलं शृणु
अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते । कस्माद्धिकारणाद्राजञ्छक्यं प्राप्य न कारयेत्
अन्यो विप्रः समायातस्तत्कालं श्राद्धकर्मणि । उभौ तौ पूजयेत्तत्र भोजनाच्छादनैस्ततः
तांबूलदक्षिणाभिश्च पितरस्तस्य हर्षिताः । श्राद्धभुक्ताय दातव्यं सदा दानं च दक्षिणा
न ददेच्छ्राद्धकर्ता यो गोहत्यादि समं भवेत् । द्वावेतौ पूजयेत्तस्माच्छ्रद्धया नृपसत्तम
निर्द्धनत्व प्रभावाद्वै तमेकं हि प्रपूजयेत् । व्यतीपातेपि संप्राप्ते वैधृतौ च नृपोत्तम
अमावास्यां तथा राजन्क्षयाहे परपक्षके । श्राद्धमेवं प्रकर्तव्यं ब्राह्मणादि त्रिवर्णकैः
यज्ञे तथा महाराज ऋत्विजश्च प्रकारयेत् । तथा विप्राः प्रकर्तव्याः श्राद्धदानाय सर्वदा
अविज्ञातः प्रकर्तव्यो ब्राह्मणो नैव जानता । यस्यापि ज्ञायते वंशः कुलं त्रिपुरुषं तथा
आचारश्च तथा राजंस्तं विप्रं सन्निमंत्रयेत् । कुलं न ज्ञायते यस्य आचारेण विचारयेत्
श्राद्धदाने प्रकर्तव्ये विशुद्धो मूर्ख एव हि । अविज्ञातो भवेद्विप्रो वेदवेदांगपारगः
श्राद्धदानं प्रकर्तव्यं तस्माद्विप्रं निमंत्रयेत् । आतिथ्यं तु प्रकर्तव्यमपूर्वं नृपसत्तम
अन्यथा कुरुते पापी स याति नरकं ध्रुवम् । तस्माद्विप्रः प्रकर्तव्यो दाने श्राद्धे च पर्वसु
आदौ परीक्षयेद्विप्रं श्राद्धे दाने प्रकारयेत् । नाश्नंति तस्य वै गेहे पितरो विप्रवर्जिताः
शापं दत्त्वा ततो यांति श्राद्धाद्विप्रविवर्जितात् । महापापी भवेत्सोपि ब्रह्मणः सदृशो यदि
पैत्राचारं परित्यज्य यो वर्तेत नरोत्तम । महापापी स विज्ञेयः सर्वधर्मबहिष्कृतः
ये त्यजंति शिवाचारं वैष्णवं भोगदायकम् । निंदंति ब्राह्मणं धर्मं विज्ञेयाः पापवर्द्धनाः
ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च । हरिं निंदंति ये पापा ब्रह्मद्वेषकराः सदा
आचारनिंदका ये ते महापातककृत्तमाः । आद्यं पूज्यं परं ज्ञानं पुण्यं भागवतं तथा
वैष्णवं हरिवंशं वा मत्स्यं वा कूर्ममेव च । पाद्मं वा ये पूजयंति तेषां श्रेयो वदाम्यहम्
प्रत्यक्षं तेन वै देवः पूजितो मधुसूदनः । तस्मात्प्रपूजयेज्ज्ञानं वैष्णवं विष्णुवल्लभम्
देवस्थाने च नित्यं वै वैष्णवं पुस्तकं नृप । तस्मिन्प्रपूजिते विप्र पूजितः कमलापतिः
असंपूज्य हरेर्ज्ञानं ये गायंति लिखंति च । अज्ञाय तत्प्रयच्छंति शृण्वंत्युच्चारयंति च
विक्रीडंति च लोभेन कुज्ञान नियमेन च । असंस्कृतप्रदेशेषु यथेष्टं स्थापयंति च