अनित्यतात्र भावानां कृतकाम्यस्य देहिनः । अन्योन्य मर्मभेदाच्च अन्योन्य करपीडनात्
लुब्धाश्च पापभेदेन अन्योन्यस्य च भक्षणम् । इत्येवमादिभिर्दुःखैर्यस्माद्भीतं चराचरम्
निरयादि मनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः । स्कंधात्स्कंधेन यन्भारं विश्रामं मन्यते यथा
तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति । अन्योन्यातिशयोपेताः सर्वदा भोगसंप्लवाः
धर्मक्षयाच्च देवानां दिवि दुःखमवस्थितम् । नानायोनिसहस्रेषु संभवः पुण्यसंक्षयात्
रोगाश्च विविधाकारा देवलोकेऽपि संस्मृताः । यज्ञस्य हि शिरश्छिन्नमश्विभ्यां संधितं पुनः
तेन दोषेण यज्ञस्य शिरोरोगः सदैव हि । मार्तंडभानोः कुष्ठं च वरुणस्य जलोदरम्
पूष्णोदशनवैकल्यं भुजस्तंभः शचीपतेः । सुमहान्क्षयरोगश्च सोमस्य परिकीर्तितः
ज्वरश्च सुमहानासीद्दक्षस्यापि प्रजापतेः । कल्पेकल्पे च देवानां महतामपि संक्षयः
परार्धद्वयकालांते ब्रह्मणश्चाप्यनित्यता । दक्षस्य दुहितां पौत्रीं ब्रह्मा कामितवान्पुनः
क्रोधेन च जयां देवीं योगज्ञां शप्तवान्प्रभुः । कामक्रोधौ स्थितौ यत्र तत्र दोषास्तदात्मकाः
दुःखानि च समस्तानि संस्थितानि न संशयः । विशीर्णजन्ममरणं सर्वाशित्वं हविर्भुजः
स्त्रीवधः कामसक्तिश्च सारथ्यं पांडवे बले । रुद्रेण त्रिपुरं दग्धं दक्षयज्ञो विनाशितः
स्कंदस्य जन्म वै शुक्रात्क्रीडादीनां सहस्रशः । एवं त्रयोपि रागाद्यैर्दोषैर्देवाः समन्विताः
एभ्यः परः प्रभुः शांतः परिपूर्णः स मुक्तिदः । एवमेतज्जगत्सर्वमन्योन्यातिशये स्थितम्
दुःखैराकुलितं ज्ञात्वा निर्वेदं परमं व्रजेत् । निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः
ज्ञानेन तत्परं ज्ञानं शिवं मुक्तिमवाप्नुयात् । समस्तदुःखनिर्मुक्त स्वस्थात्मा स सुखी तदा
सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते । मातलिरुवाच- एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम्
धर्माधर्मविवेको हि सर्वज्ञानसमुद्भवः । इंद्रलोके प्रगंतव्यं देवराजस्य शासनात्
ययातिरुवाच- अस्मद्भाग्यप्रसंगेन भवतो दर्शनं मम । संजातं शक्रसंवाह एतच्छ्रेयो ममातुलम्
मानवा मर्त्यलोके च पापं कुर्वंति दारुणम् । तेषां कर्मविपाकं च मातले वद सांप्रतम्
मातलिरुवाच- श्रूयतामभिधास्यामि पापाचारस्य लक्षणम् । श्रुते सति महज्ज्ञानमत्रलोके प्रजायते
वेदनिंदां प्रकुर्वंति ब्रह्माचारस्य कुत्सनम् । महापातकमेवापि ज्ञातव्यं ज्ञानपंडितैः
साधूनामपि सर्वेषां यः पीडां हि समाचरेत् । महापातकमेवापि प्रायश्चित्ते न हि व्रजेत्
कुलाचारं परित्यज्य अन्याचारं व्रजंति च । एतच्च पातकं घोरं कथितं कृत्यवेदिभिः
मातापित्रोश्च यो निंदां ताडनं भगिनीषु च । पितृस्वसृनिंदनं च तदेव पातकं ध्रुवम्
संप्राप्ते श्राद्धकालेपि पंचक्रोशांतरेस्थितम् । जामातरं परित्यज्य तथा च दुहितुः सुतम्
स्वसारं चैव स्वस्रीयं परित्यज्य प्रवर्तते । कामात्क्रोधाद्भयाद्वापि अन्यं भोजयते यदा
पितरो नैव भुंजंति देवाश्चैव न भुंजते । एतच्च पातकं तस्य पितृघातसमं कृतम्
दानकालेपि संप्राप्ते आगते ब्राह्मणे किल । भूरिदानं परित्यज्य कतिभ्यो हि प्रदीयते