छिन्नमूलतरुर्यद्वद्दिवसैः पतति क्षितौ । पुण्यस्य संक्षयात्तद्वन्निपतंति दिवौकसः
सुखाभिलाषनिष्ठानां सुखभोगादि संप्लवैः । अकस्मात्पतितं दुःखं कष्टं स्वर्गेदिवौकसाम्
इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः । क्षयश्च विषयासिद्धौ स्वर्गे भोगाय कर्मणाम्
तत्र दुःखं महत्कष्टं नरकाग्निषु देहिनाम् । घोरैश्च विविधैर्भावैर्वाङ्मनः काय संभवैः
कुठारच्छेदनं तीव्रं वल्कलानां च तक्षणम् । पर्णशाखाफलानां च पातश्चंडेन वायुना
उन्मूलनान्नदीभिश्च गजैरन्यैश्च देहिभिः । दावाग्निहिमशोषैश्च दुःखं स्थावरजातिषु
तद्वद्भुजंगसर्पाणां क्रोधे दुःखं च दारुणम् । दुष्टानां घातनं लोके पाशेन च निबंधनम्
अकस्माज्जन्ममरणं कीटानां च मुहुर्मुहुः । सरीसृपनिकायानामेवं दुःखान्यनेकधा
पशूनामात्मशमनं दंडताडनमेव च । नासावेधेन संत्रासः प्रतोदेन सुताडनम्
वेत्रकाष्ठादिनिगडैरंकुशेनांगबंधनम् । भावेन मनसा क्लेशैर्भिक्षा युवादिपीडनम्
आत्मयूथवियोगैश्च बलान्नयनबंधने । पशूनां संति कायानामेवं दुःखान्यनेकशः
वर्षाशीतातपाद्दुःखं सुकष्टं ग्रहपक्षिणाम् । क्लेशमानाति कायानामेवं दुःखान्यनेकधा
गर्भवासे महद्दुःखं जन्मदुःखं तथा नृणाम् । सुबाल्यदुःखं चाज्ञानं कौमारे गुरुशासनम्
यौवने कामरागाभ्यां दुःखं चैवेर्ष्यया पुनः । कृषिवाणिज्यसेवाद्यैर्गोरक्षादिक कर्मभिः
वृद्धभावे च जरया व्याधिभिश्च प्रपीडनात् । मरणे च महद्दुःखं प्रार्थनायां ततोधिकम्
राजाग्निजलदाघातचौरशत्रु भयं महत् । अर्थस्यार्जनरक्षायां भयं नाशे व्यये पुनः
कार्पण्यं मत्सरो दम्भो धनाधिक्ये भयं महत् । अकार्ये संप्रवृत्तिश्च दुःखानि धनिनां सदा
भृत्यवृत्तिः कुसीदं च दासत्वं परतंत्रता । इष्टानिष्टाभियोगश्च संयोगाश्च सहस्रशः
दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता । अधरोत्तरभागश्च नारकं राजविक्रमम्
अन्योन्याभिभवं दुःखमन्यांन्यतो भयं महत् । अन्योन्याच्च प्रकोपश्च राज्ञो दुःखं महीभृताम्
अनित्यतात्र भावानां कृतकाम्यस्य देहिनः । अन्योन्य मर्मभेदाच्च अन्योन्य करपीडनात्
लुब्धाश्च पापभेदेन अन्योन्यस्य च भक्षणम् । इत्येवमादिभिर्दुःखैर्यस्माद्भीतं चराचरम्
निरयादि मनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः । स्कंधात्स्कंधेन यन्भारं विश्रामं मन्यते यथा
तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति । अन्योन्यातिशयोपेताः सर्वदा भोगसंप्लवाः
धर्मक्षयाच्च देवानां दिवि दुःखमवस्थितम् । नानायोनिसहस्रेषु संभवः पुण्यसंक्षयात्
रोगाश्च विविधाकारा देवलोकेऽपि संस्मृताः । यज्ञस्य हि शिरश्छिन्नमश्विभ्यां संधितं पुनः
तेन दोषेण यज्ञस्य शिरोरोगः सदैव हि । मार्तंडभानोः कुष्ठं च वरुणस्य जलोदरम्
पूष्णोदशनवैकल्यं भुजस्तंभः शचीपतेः । सुमहान्क्षयरोगश्च सोमस्य परिकीर्तितः
ज्वरश्च सुमहानासीद्दक्षस्यापि प्रजापतेः । कल्पेकल्पे च देवानां महतामपि संक्षयः
परार्धद्वयकालांते ब्रह्मणश्चाप्यनित्यता । दक्षस्य दुहितां पौत्रीं ब्रह्मा कामितवान्पुनः