विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत् । कौमारः कर्णवेधेन मातापित्रोश्च ताडनैः
अक्षराध्ययनाद्यैश्च दुःखं गुर्वादिशासनात् । प्रमत्तेंद्रियवृत्तेश्च कामरागप्रपीडिनः
रोगार्दितस्य सततं कुतः सौख्यं हि यौवने । ईर्ष्यासु महद्दुःखं मोहाद्दुःखं प्रजायते
तत्रस्यात्कुपितस्यैव रागो दुःखाय केवलम् । रात्रौ न विंदते निद्रा कामाग्नि परिखेदितः
दिवा वापि कुतः सौख्यमर्थोपार्जनचिंतया । स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः
न ते सुखाय मंतव्याः स्वेदजा इव बिंदवः । कृमिभिस्ताड्यमानस्य कुष्ठिनः पामरस्य च
कंडूयनाग्नितापेन यत्सुखं स्त्रीषु तद्विदुः । यादृशं मन्यते सौख्यमर्थोपार्जनचिंतया
तादृशं स्त्रीषु मंतव्यमधिकं नैव विद्यते । मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः
ततोन्योन्यं पुरा प्राप्तमंते सैवान्यथा भवेत् । तदेवं जरया ग्रस्तमामया व्यपिनप्रियम्
अपूर्ववत्समात्मानं जरया परिपीडितम् । यः पश्यन्न विरज्येत कोन्यस्तस्मादचेतनः
जराभिभूतोपि जंतुः पत्नीपुत्रादिबांधवैः । अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते
न धर्ममर्थं कामं च मोक्षं च जरयायुतः । शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत्
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते । वातादीनां समूहेन देहोयं परिकीर्तितः
तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः । वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पंजरस्य च
रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा । तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् । तत्रैकः कालसंयुक्तः शेषाश्चागंतवः स्मृताः
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति
यदि वापमृत्युर्न स्याद्विषास्वादादशंकितः । न चात्ति पुरुषस्तस्मादपमृत्योर्बिभेति सः
विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम्
पीडितं सर्वरोगाद्यैरपि धन्वंतरिः स्वयम् । स्वस्थीकर्तुं न शक्नोति कालप्राप्तं न चान्यथा
नौषधं न तपो दानं न माता न च बांधवाः । शक्नुवंति परित्रातुं नरं कालेन पीडितम्
रसायन तपो जाप्ययोगसिद्धैर्महात्मभिः । अवांतरितशांतिः स्यात्कालमृत्युमवाप्नुयात्
जायते योनिकीटेषु मृतः कर्मवशात्पुनः । देहभेदेन यः पश्येद्वियोगं कर्मसंक्षयात्
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः । महातमः प्रविष्टस्य छिद्यमानेषु मर्मसु
यद्दुःखं मरणे जंतोर्न तस्येहोपमा क्वचित् । हा तात मातः कांतेति क्रंदत्येवं सुदुःखितः
मंडूक इव सर्पेण ग्रस्यते मृत्युना जगत् । बांधवैः स परित्यक्तः प्रियैश्च परिवारितः
निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यता । खट्वायां परिवृत्तो हि मुह्यते च मुहुर्मुहुः
संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः । खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम्
विवशस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः । याचमानश्च सलिलं शुष्ककंठोष्ठतालुकः
चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि । यमदूतैर्नीयमानः कालपाशेन कर्षितः