अशुद्धं च विशुद्धस्य कर्मबंधविनिर्मितम् । शुक्रशोणितसंयोगाद्देहः संजायते क्वचित्
नित्यं विण्मूत्रसंयुक्तस्तेनायमशुचिः स्मृतः । यथा वै विष्ठया पूर्णः शुचिः सांतर्बहिर्घटः
शौचेन शोध्यमानोपि देहोयमशुचिर्भवेत् । यं प्राप्यातिपवित्राणि पंचगव्य हवींषि च
अशुचित्वं प्रयांत्याशु देहोयमशुचिस्ततः । हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च
अशुचित्वं प्रयांत्याशु कोऽन्य स्यादशुचिस्ततः । हे जनाः किं न पश्यध्वं यन्निर्याति दिनेदिने
देहानुगो मलः पूतिस्तदाधारः कथं शुचिः । देहः संशोध्यमानोपि पंचगव्यकुशांबुभिः
घृष्यमाण इवांगारो निर्मलत्वं न गच्छति । स्रोतांसि यस्य सततं प्रवहंति गिरेरिव
कफमूत्राद्यमशुचिः स देहः शुध्यते कथम् । सर्वाशुचिनिधानस्य शरीरस्य न विद्यते
शुचिरेकप्रदेशोपि शुचिर्न स्यादृतेऽपि वा । दिवा वा यदि वा रात्रौ मृत्तोयैः शोध्यते करः
तथापि शुचिभाङ्नस्यान्न विरज्यंति ते नराः । कायोयमग्र्यधूपाद्यैर्यत्नेनापि सुसंस्कृतः
न जहाति स्वभावं हि श्वपुच्छमिव नामितम् । तथा जात्यैव कृष्णोर्णा न शुक्ला जातु जायते
संशोध्यमानापि तथा भवेन्मूर्तिर्न निर्मला । जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम्
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् । अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत्
जिघ्रन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते । स्वदेहस्य विगंधेन विरज्येत न यो नरः
विरागकारणं तस्य किमन्यदुपदिश्यते । सर्वमेव जगत्पूतं देहमेवाशुचिः परम्
यन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् । गंधलेपापनोदाय शौचं देहस्य कीर्तितम्
द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुद्ध्यति । गंगातोयेन सर्वेण मृद्भारैर्गात्रलेपनैः
मर्त्यो दुर्गंधदेहोसौ भावदुष्टो न शुध्यति । तीर्थस्नानैस्तपोभिश्च दुष्टात्मा न च शुध्यति
स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति । अंतर्भावप्रदुष्टस्य विशतोपि हुताशनम्
न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् । भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु
अन्यथा लिंग्यते कांता भावेन दुहितान्यथा । मनसा भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु
अन्यथैव सती पुत्रं चिंतयेदन्यथा पतिम् । यथायथा स्वभावस्य महाभाग उदाहृतम्
परिष्वक्तोपि यद्भार्यां भावहीनां न कारयेत् । नाद्याद्विविधमन्नाद्यं रस्यानि सुरभीणि च
अभावेन नरस्तस्माद्भावः सर्वत्र कारणम् । चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः
भावतः शुचिशुद्धात्मा स्वर्गं मोक्षं च विंदति । ज्ञानामलांभसा पुंसः सवैराग्यमृदापुनः
अविद्या रागविण्मूत्र लेपो नश्येद्विशोधनैः । एवमेतच्छरीरं हि निसर्गादशुचिं विदुः
विद्यादसार निःसारं कदलीसारसन्निभम् । ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिली भवेत्
सोतिक्रामति संसारं दृढग्राहोवतिष्ठति । एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम्
पुंसामज्ञानदोषेण नानाकर्मवशेन च । गर्भस्थस्य मतिर्यासीत्सा जातस्य प्रणश्यति
सुमूर्च्छितस्य दुःखेन योनियंत्रनिपीडनात् । बाह्येन वायुना चास्य मोहसंगेन देहिनाम्