विभक्तावयवस्पष्टं पुनर्मासाष्टमे भवेत् । पंचात्मक समायुक्तः परिपक्वः स तिष्ठति
मातुराहारवीर्येण षड्विधेन रसेन च । नाभिसूत्रनिबद्धेन वर्द्धते स दिनेदिने
ततः स्मृतिं लभेज्जीवः संपूर्णोस्मिञ्छरीरके । सुखं दुःखं विजानाति निद्रां स्वप्नं पुराकृतम्
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायोनिसहस्राणि मया दृष्टान्यनेकधा
अधुना जातमात्रोहं प्राप्तसंस्कार एव च । ततः श्रेयः करिष्यामि येन गर्भे न संभवः
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिःसृतः । अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम्
अवश्यं गर्भदुःखेन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयेत्
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति । तथा जरायुणा देही दुःखं तिष्ठति दुःखितः
पतितः सागरे यद्वद्दुःखमास्ते समाकुलः । गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलात्मकः
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना । गर्भकुंभे तथाक्षिप्तः पच्यते जठराग्निना
सूचीभिरग्निवर्णाभिर्भिन्नगात्रो निरंतरम् । यद्दुःखं जायते तस्य तद्गर्भेष्टगुणं भवेत्
गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् । देहिनां दुःखमतुलं सुघोरमपि संकटम्
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् । चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः
गर्भात्कोटिगुणापीडा योनियंत्रनिपीडनात् । संमूर्च्छितस्य जायेत जायमानस्य देहिनः
इक्षुवत्पीड्यमानस्य पापमुद्गरपेषणात् । गर्भान्निष्क्रममाणस्य प्रबलैः सूतिवायुभिः
जायते सुमहद्दुःखं परित्राणं न विंदति । यंत्रेण पीड्यमानाः स्युर्निःसाराश्च यथेक्षवः
तथा शरीरं योनिस्थं पात्यते यंत्रपीडनात् । अस्थिमद्वर्तुलाकारं स्नायुबंधनवेष्टितम्
रक्तमांसवसालिप्तं विण्मूत्रद्रव्यभाजनम् । केशलोमनखच्छन्नं रोगायतनमुत्तमम्
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् । ओष्ठद्वयकपाटं तु दंतजिह्वागलान्वितम्
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् । जराशोकसमाविष्टं कालवक्त्रानलेस्थितम्
कामक्रोधसमाक्रांतं श्वसनैश्चोपमर्दितम् । भोगतृष्णातुरं गूढं रागद्वेष वशानुगम्
सवर्णितांगप्रत्यंगं जरायु परिवेष्टितम् । संकटेनाविविक्तेन योनिमार्गेण निर्गतम्
विण्मूत्ररक्तसिक्तांगं षट्कौशिकसमुद्भवम् । अस्थिपंजरसंघातं ज्ञेयमस्मिन्कलेवरे
शतत्रयं शताधिकं पंचपेशी शतानि च । सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः
शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्याभिरंततः । एताभिर्मांसनाडीभिः कोटिभिस्तत्समन्वितम्
प्रस्वेदमशुचिं ताभिरंतरस्थं च तेन हि । द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः
पित्तस्य कुडवं ज्ञेयं कफस्यार्धाढकं तथा । वसायाश्च पलाः पंच तदर्धं फलकस्य च
पंचार्बुद पला ज्ञेयाः पलानि दश मेदसः । पलत्रयं महारक्तं मज्जा रक्ताच्चतुर्गुणा
शुक्रार्धकुडवं ज्ञेयं तदर्धं देहिनां बलम् । मांसस्य चैकं पिंडेन पलसाहस्रमुच्यते
रक्तं पलशतं ज्ञेयं विण्मूत्रं चाप्रमाणतः । इति देहगृहे राजन्वासः स्यान्नित्यमात्मनः