अमावास्यादिने सम्यक्श्राद्धदाने च यत्फलम् । नरस्तत्फलमाप्नोति साभ्रमत्यावगाहनात्
कार्तिक्यां कृत्तिकायोगे श्रीस्थले माधवाग्रतः । तत्फलं लभते मर्त्यो साभ्रमत्यावगाहनात्
एषा श्रेष्ठतमा देवि सर्वलोकेषु पावनी । इयं धन्यतमा देवि पवित्रा ह्यघनाशिनी
यस्यां वै साभ्रमत्यां च एते तिष्ठंति नित्यशः । पूर्वं संबंधिनो ये च उत्तरे ये तथा पुनः
पाश्चात्या दाक्षिणात्याश्च सर्वे यांति च नित्यशः । तीर्थयात्रामिषेणैव खेटके ब्रह्मसन्निधौ
आयांति सर्वदा देवि कार्तिक्यां च न संशयः । तत्र श्राद्धं प्रकुर्वंति तथा वै विप्रभोजनम्
नाना धर्मान्प्रकुर्वंति नानायज्ञांश्च नित्यशः । विविधानि च दानानि प्रकुर्वंति जनाः सदा
चतुर्युगेषु सर्वेषु नात्र कार्या विचारणा । यवक्रीतोऽथ रैभ्यश्च काक्षीवानुशिजस्तथा
भृग्वंगिरास्तथा कण्वो मेधावी च पुनर्वसुः । बंदी च गुणसंपन्नः प्राच्यां दिशि उपश्रिताः
उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथा । सुबंधुश्च महाभागो दत्तात्रेयश्च वीर्यवान्
शिखी दीर्घतमाश्चैव गौतमः कश्यपस्तथा । श्वेतकेतुः कहोडश्च पुलहो देवलस्तथा
विश्वामित्र भरद्वाजौ जमदग्निश्च वीर्यवान् । ऋचीकपुत्रो गर्गश्च ऋषिरुद्दालकस्तथा
देवशर्माऽथ धौम्यश्च आस्तीकः कश्यपस्तथा । लोमशो नाभिकेतुश्च लोमहर्षण एव च
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा । वालखिल्यादयो ये च सर्वे गच्छंति तत्र वै
कृतस्नाना निराहाराः सदा विष्णुपरायणाः । शंखचक्रगदाधरास्तटे तिष्ठंति नित्यशः
पितृतीर्थं गयानाम सर्वतीर्थवरं शुभम् । यत्रास्ते देवदेवेशः स्वयमेव पितामहः
गीतायाः पितृभिर्गाथा श्राद्धभागमपीप्सुभिः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् । तथा वाराणसी पुण्या पितॄणां वल्लभा सदा
या चैव मम सांनिध्याद्भुक्तिमुक्तिफलप्रदा । ममाज्ञया तु देवेशो बिंदुमाधवसंज्ञकः
नित्यं तिष्ठति देवेशि वाराणस्यां विशेषतः । अतो धन्यतमा श्रेष्ठा पुरीयं मम सर्वदा
पितॄणां वल्लभं तीर्थं पुण्यं वै विमलेश्वरम् । पितृतीर्थं प्रयागं च सर्वतीर्थसमन्वितम् 6.135.
साभ्रमत्युदके देवि आयांति वचनान्मम । वटेश्वरश्च भगवान्माधवेन समन्वितः
दशाश्वमेधकं पुण्यं गंगाद्वारं तथैव च । मन्नियोगाच्च देवेशि साभ्रमत्यां वसंति हि
नदाथ ललितादेवी तीर्थं यत्सप्तधारकम् । तथा मित्रपदं नाम केदारं शंकरालयम्
गंगासागरमित्याहुः सर्वतीर्थमयं शुभम् । तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे
तीर्थं तु नैमिषं नाम आज्ञया मम सर्वदा । साभ्रमत्युदके देवि निवसंति न संशयः
श्वेता वल्कलिनी पुण्या ततः श्वेता हिरण्मयी । हस्तिमत्यथवार्त्तघ्नी नदी सागरगामिनी
पितॄणां वल्लभा ह्येताः श्राद्धकोटिफलप्रदः । तत्र श्राद्धानि देयानि पुत्रैः पितृहिताय वै
पाटलं वाडवाख्यं च नगरं तत्र सुंदरि । साभ्रमत्यां सदा एताः प्राप्ता नद्यो विशेषतः
तत्र स्नानं च दानं च ये कुर्वंति नरा भुवि । इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम्