इति द्वादश शान्तस्य परिणामाः प्रकीर्तिताः । शुक्रं तस्य परीणामः शुक्राद्देहस्य संभवः
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् । तदा तद्वायुसंसृष्टं स्त्रीरक्तेनैकतां व्रजेत्
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः । नित्यं प्रविशते योनिं कर्मभिः स्वैर्नियंत्रितः
शुक्रस्य सह रक्तस्य एकाहात्कललं भवेत् । पंचरात्रेण कलले बुद्बुदत्वं ततो भवेत्
मांसत्वं मासमात्रेण पंचधा जायते पुनः । ग्रीवा शिरश्च स्कंधश्च पृष्ठवंशस्तथोदरम्
पाणीपादौ तथा पार्श्वौ कटिर्गात्रं तथैव च । मासद्वयेन पर्वाणि क्रमशः संभवंति च
त्रिभिर्मासैः प्रजायंते शतशोंकुरसंधयः । मासैश्चतुर्भिर्जायंते अंगुल्यादि यथाक्रमम्
मुखं नासा च कर्णौ च मासैर्जायंति पंचभिः । दंतपंक्तिस्तथा जिह्वा जायते तु नखाः पुनः
कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यंतरे पुनः । पायुर्मेढ्रमुपस्थं च शिश्नश्चाप्युपजायते
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः । अंगप्रत्यंगसंपूर्णं शिरः केशसमन्वितम्
विभक्तावयवस्पष्टं पुनर्मासाष्टमे भवेत् । पंचात्मक समायुक्तः परिपक्वः स तिष्ठति
मातुराहारवीर्येण षड्विधेन रसेन च । नाभिसूत्रनिबद्धेन वर्द्धते स दिनेदिने
ततः स्मृतिं लभेज्जीवः संपूर्णोस्मिञ्छरीरके । सुखं दुःखं विजानाति निद्रां स्वप्नं पुराकृतम्
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायोनिसहस्राणि मया दृष्टान्यनेकधा
अधुना जातमात्रोहं प्राप्तसंस्कार एव च । ततः श्रेयः करिष्यामि येन गर्भे न संभवः
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिःसृतः । अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम्
अवश्यं गर्भदुःखेन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयेत्
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति । तथा जरायुणा देही दुःखं तिष्ठति दुःखितः
पतितः सागरे यद्वद्दुःखमास्ते समाकुलः । गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलात्मकः
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना । गर्भकुंभे तथाक्षिप्तः पच्यते जठराग्निना
सूचीभिरग्निवर्णाभिर्भिन्नगात्रो निरंतरम् । यद्दुःखं जायते तस्य तद्गर्भेष्टगुणं भवेत्
गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् । देहिनां दुःखमतुलं सुघोरमपि संकटम्
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् । चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः
गर्भात्कोटिगुणापीडा योनियंत्रनिपीडनात् । संमूर्च्छितस्य जायेत जायमानस्य देहिनः
इक्षुवत्पीड्यमानस्य पापमुद्गरपेषणात् । गर्भान्निष्क्रममाणस्य प्रबलैः सूतिवायुभिः
जायते सुमहद्दुःखं परित्राणं न विंदति । यंत्रेण पीड्यमानाः स्युर्निःसाराश्च यथेक्षवः
तथा शरीरं योनिस्थं पात्यते यंत्रपीडनात् । अस्थिमद्वर्तुलाकारं स्नायुबंधनवेष्टितम्
रक्तमांसवसालिप्तं विण्मूत्रद्रव्यभाजनम् । केशलोमनखच्छन्नं रोगायतनमुत्तमम्
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् । ओष्ठद्वयकपाटं तु दंतजिह्वागलान्वितम्
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् । जराशोकसमाविष्टं कालवक्त्रानलेस्थितम्