तस्मात्प्रजायते कायो नाशरूपं समृच्छति । अग्निः प्रजायते भूयो जरारूपो न संशयः
प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः । स्थावरा जंगमाः सर्वे ज्वरेण परिपीडिताः
नाशमायांति ते सर्वे बहुपीडा प्रपीडिताः । एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम्
एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत्
ययातिरुवाच- धर्मस्य रक्षकः कायो मातले चात्मना सह । नाकमेष न प्रयाति तन्मे त्वं कारणं वद
मातलिरुवाच- पंचानामपि भूतानां संगतिर्नास्ति भूपते । आत्मना सह वर्तंते संगत्या नैव पंच ते
सर्वेषां तत्र संघातः कायग्रामे प्रवर्तते । जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयांति ते
यथा रसाधिका पृथ्वी महाराज प्रकल्पिता । रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते
भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च । छिद्राण्येव प्रजायंते वल्मीकाश्च महोदराः
तद्वत्काये प्रजायंते गंडमाला विचार्चिकाः । कृमिभिर्भिद्यमानश्च काय एष नरोत्तम
गुल्मास्तत्र प्रजायंते सद्यः पीडाकरास्तदा । एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज । कथं प्राणसमायोगाद्दिवं याति नरेश्वर
काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः । न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः
एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-। माहात्म्ये पंचषष्टितमोऽध्यायः
ययातिरुवाच- पापात्पतति कायोयं धर्माच्च शृणु मातले । विशेषं न च पश्यामि पुण्यस्यापि महीतले
पुनः प्रजायते कायो यथा हि पतनं पुरा । कथमुत्पद्यते देहस्तन्मे विस्तरतो वद
मातलिरुवाच- अथ नारकिणां पुंसामधर्मादेव केवलात् । क्षणमात्रेण भूतेभ्यः शरीरमुपजायते
तद्वद्धर्मेण चैकेन देवानामौपपादिकम् । सद्यः प्रजायते दिव्यं शरीरं भूतसारतः
कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम् । तद्रूपपरिणामेन विज्ञेयं हि चतुर्विधम्
उद्भिज्जाः स्थावरा ज्ञेयास्तृणगुल्मादि रूपिणः । कृमिकीटपतंगाद्याः स्वेदजानामदेहिनः
अंडजाः पक्षिणः सर्वे सर्पा नक्राश्च भूपते । जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः
तत्र सिक्ता जलैर्भूमिर्रक्ते उष्मविपाचिता । वायुना धम्यमाना च क्षेत्रे बीजं प्रपद्यते
यथा उप्तानि बीजानि संसिक्तान्यंभसा पुनः । उपगम्य मृदुत्वं च मूलभावं व्रजंति च
तन्मूलादंकुरोत्पत्तिरंकुरात्पर्णसंभवः । पर्णान्नालं ततः कांडं कांडाच्च प्रभवः पुनः
प्रभवाच्च भवेत्क्षीरं क्षीरात्तंदुलसंभवः । तंदुलाच्च ततः पक्वा भवंत्योषधयस्तथा
यवाद्याः शालिपर्यंताः श्रेष्ठाः सप्तदश स्मृताः । ओषध्यः फलसाराढ्याः शेषा क्षुद्रा प्रःकीर्तिताः
एता लूना मर्दिताश्च मुनिभिः पूर्वसंस्कृताः । शूर्पोलूखलपात्राद्यैः स्थालिकोदकवह्निभिः
षड्विधा हि स्वभेदेन परिणामं व्रजंति ताः । अन्योन्यरससंयोगादनेकस्वादतां गताः
भक्ष्यं भोज्यं पेयलेह्यं चोष्यं खाद्यं च भूपते । तासां भेदाः षडंगाश्च मधुराद्याश्च षड्गुणाः
तदन्नं पिंडकवलैर्ग्रासैर्भुक्तं च देहिभिः । अन्नमूलाशये सर्वप्राणान्स्थापयति क्रमात्