शुक्राद्धि जायते कायः कुरूपः काय एव च । यथा पृथ्वी सृजेद्गंधान्रसैश्चरति भूतले
तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः । गंधश्च जायते तस्माद्गंधाद्रसो भवेत्पुनः
तस्माज्जज्ञे महावह्निर्दृष्टांतं पश्य भूपते । यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत्
कायमध्ये रसादग्निस्तद्वदेव प्रजायते । तत्र संचरते नित्यं कायं पुष्णाति भूपते
यावद्रसस्य चाधिक्यं तावज्जीवः प्रशांतिमान् । चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते
अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् । प्रदानं लभते चान्नमुदकं चापि भूपते
शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः । यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः
रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति । रसेन पीड्यमानस्तु ज्वररूपोभिजायते
ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु संधिषु । आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते
तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः । रसस्तु बंधमायाति बलरूपो भवेत्तदा
अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत् । तेनैव जायते कामः शल्यरूपो भवेन्नृप
सकामाग्निः समाख्यातो बलनाशकरो नृप । मैथुनस्य प्रसंगेन विनाशत्वं कलेवरे
नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना । मैथुनस्य प्रसंगेन मूर्छितः कामकर्शितः
तेजोहीनो भवेत्कायो बलहानिश्च जायते । बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः
स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च । शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते
अतीव जायते वायुः प्रचंडो दारुणाकृतिः । विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत्
दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा । तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि
विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते । बलहीनो यदा कामी मांसशोणितसंक्षयात्
पलितं जायते काये नाशिते कामवह्निना । तस्मात्संजायते कामी वृद्धो भूत्वा दिनेदिने
सुरते चिंतते नारीं यथा वार्द्धुषिको नरः । तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर
तस्मात्प्रजायते कायो नाशरूपं समृच्छति । अग्निः प्रजायते भूयो जरारूपो न संशयः
प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः । स्थावरा जंगमाः सर्वे ज्वरेण परिपीडिताः
नाशमायांति ते सर्वे बहुपीडा प्रपीडिताः । एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम्
एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत्
ययातिरुवाच- धर्मस्य रक्षकः कायो मातले चात्मना सह । नाकमेष न प्रयाति तन्मे त्वं कारणं वद
मातलिरुवाच- पंचानामपि भूतानां संगतिर्नास्ति भूपते । आत्मना सह वर्तंते संगत्या नैव पंच ते
सर्वेषां तत्र संघातः कायग्रामे प्रवर्तते । जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयांति ते
यथा रसाधिका पृथ्वी महाराज प्रकल्पिता । रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते
भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च । छिद्राण्येव प्रजायंते वल्मीकाश्च महोदराः
तद्वत्काये प्रजायंते गंडमाला विचार्चिकाः । कृमिभिर्भिद्यमानश्च काय एष नरोत्तम