यस्मात्पंचत्वरूपोऽयं संधिजर्जरितः सदा । जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा
जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति । आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः
सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः । अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा
सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते । पातकैश्च महाराज द्रवते कायमेव सा
ययातिरुवाच- कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत् । मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम
मातलिरुवाच- हंत ते वर्णयिष्यामि जरायाः परिकारणम् । यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम
पंचभूतात्मकः कायो विषयैः पंचभिः श्रितः । यदात्मा त्यजते राजन्स कायः परिधक्ष्यते
वह्निना दीप्यमानस्तु सरसो ज्वलते नृप । तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे
मेघादापः प्रवर्तंते अद्भ्यः पृथ्वी प्रकल्पते । जलमायाति साध्वी सा यथा नारी रजस्वला
तस्मात्प्रजायते गंधो गंधाद्रसो नृपोत्तम । रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः
शुक्राद्धि जायते कायः कुरूपः काय एव च । यथा पृथ्वी सृजेद्गंधान्रसैश्चरति भूतले
तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः । गंधश्च जायते तस्माद्गंधाद्रसो भवेत्पुनः
तस्माज्जज्ञे महावह्निर्दृष्टांतं पश्य भूपते । यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत्
कायमध्ये रसादग्निस्तद्वदेव प्रजायते । तत्र संचरते नित्यं कायं पुष्णाति भूपते
यावद्रसस्य चाधिक्यं तावज्जीवः प्रशांतिमान् । चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते
अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् । प्रदानं लभते चान्नमुदकं चापि भूपते
शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः । यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः
रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति । रसेन पीड्यमानस्तु ज्वररूपोभिजायते
ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु संधिषु । आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते
तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः । रसस्तु बंधमायाति बलरूपो भवेत्तदा
अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत् । तेनैव जायते कामः शल्यरूपो भवेन्नृप
सकामाग्निः समाख्यातो बलनाशकरो नृप । मैथुनस्य प्रसंगेन विनाशत्वं कलेवरे
नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना । मैथुनस्य प्रसंगेन मूर्छितः कामकर्शितः
तेजोहीनो भवेत्कायो बलहानिश्च जायते । बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः
स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च । शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते
अतीव जायते वायुः प्रचंडो दारुणाकृतिः । विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत्
दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा । तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि
विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते । बलहीनो यदा कामी मांसशोणितसंक्षयात्
पलितं जायते काये नाशिते कामवह्निना । तस्मात्संजायते कामी वृद्धो भूत्वा दिनेदिने
सुरते चिंतते नारीं यथा वार्द्धुषिको नरः । तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर