यथायथा कृता भूमौ यज्ञा दानं तपश्च ते । तथातथा स्वर्गभोगाः प्रार्थयंते नरेश्वर
ययातिरुवाच- येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि । मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम्
मातलिरुवाच- यत्रैवोपार्जितं कायं पंचात्मकमिदं नृप । तत्तत्रैव परित्यज्य दिव्येनैव व्रजंति तम्
इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः । तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजंति वै
ययातिरुवाच- पंचात्मकेन कायेन सुकृतं दुष्कृतं नराः । उत्पाद्यैव प्रयांत्येव अधऊर्ध्वं तु मातले
को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत् । पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत्
दृष्टांतो दृश्यते सूत प्रत्यक्षं मर्त्यमंडले । विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम्
सत्यधर्मादिकं कर्म येन कायेन मानवः । समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत्
आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि । कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः
मातलिरुवाच- सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः । संबंधो नास्ति तेनापि समं कायेन चात्मनः
यस्मात्पंचत्वरूपोऽयं संधिजर्जरितः सदा । जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा
जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति । आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः
सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः । अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा
सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते । पातकैश्च महाराज द्रवते कायमेव सा
ययातिरुवाच- कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत् । मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम
मातलिरुवाच- हंत ते वर्णयिष्यामि जरायाः परिकारणम् । यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम
पंचभूतात्मकः कायो विषयैः पंचभिः श्रितः । यदात्मा त्यजते राजन्स कायः परिधक्ष्यते
वह्निना दीप्यमानस्तु सरसो ज्वलते नृप । तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे
मेघादापः प्रवर्तंते अद्भ्यः पृथ्वी प्रकल्पते । जलमायाति साध्वी सा यथा नारी रजस्वला
तस्मात्प्रजायते गंधो गंधाद्रसो नृपोत्तम । रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः
शुक्राद्धि जायते कायः कुरूपः काय एव च । यथा पृथ्वी सृजेद्गंधान्रसैश्चरति भूतले
तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः । गंधश्च जायते तस्माद्गंधाद्रसो भवेत्पुनः
तस्माज्जज्ञे महावह्निर्दृष्टांतं पश्य भूपते । यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत्
कायमध्ये रसादग्निस्तद्वदेव प्रजायते । तत्र संचरते नित्यं कायं पुष्णाति भूपते
यावद्रसस्य चाधिक्यं तावज्जीवः प्रशांतिमान् । चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते
अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् । प्रदानं लभते चान्नमुदकं चापि भूपते
शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः । यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः
रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति । रसेन पीड्यमानस्तु ज्वररूपोभिजायते
ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु संधिषु । आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते
तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः । रसस्तु बंधमायाति बलरूपो भवेत्तदा