इंद्र उवाच- सत्यधर्मेण को राजा प्रजाः पालयते सदा । सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी
पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः । ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान्
नारद उवाच- एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली । यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः
भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः । भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः
पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा । वाजपेयशतं चक्रे ययातिः पृथिवीपतिः
दत्तान्यनेकरूपाणि दानानि तेन भक्तितः । गवां लक्षसहस्राणि गवां कोटिशतानि च
कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च । भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः
सर्वं येन स्वरूपं हि धर्मस्य परिपालितम् । एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः
वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः । राज्यं चकार सत्येन यथा दिवि भवानिह
सुकर्मोवाच- एवमाकर्ण्य देवेंद्रो नारदात्स मुनीश्वरात् । समालोच्य स मेधावी संभीतो धर्मपालनात्
शतयज्ञप्रभावेण नहुषो हि पुरा मम । एंद्रं पदं गतो वीरो देवराजोभवत्पुरा
शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत । तादृशोयं महाराजः पितुस्तुल्यपराक्रमः
प्राप्स्यते नात्र संदेहः पदमैंद्रं न संशयः । येन केनाप्युपायेन तं भूपं दिवमानये
इत्येवं चिंतयामास तस्माद्भीतः सुरेश्वरः । भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात्
तमानेतुं ततो दूतं प्रेषयामास देवराट् । नहुषस्य विमानं तु सर्वकामसमन्वितम्
सारथिं मातलिं नाम विमानेन समन्वितम् । गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः
प्रहितः सुरराजेन समानेतुं महामतिम् । सभायां वर्त्तमानस्तु यथा इंद्र प्रःशोभते
तथा ययातिर्धर्मात्मा स्वसभायां विराजते । तमुवाच महात्मानं राजानं सत्यभूषणम्
सारथिर्देवराजस्य शृणु राजन्वचो मम । प्रहितो देवराजेन सकाशं तव सांप्रतम्
यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु । आगंतव्यं त्वया देव एंद्रं लोकं हि नान्यथा
पुत्रे राज्यं विसृज्यैव कृत्वा चांतेष्टिमुत्तमाम् । इलो राजा महातेजा वसते नहुषात्मज
पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः । शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः
सगरो नाम मेधावी नहुषश्च पिता तव । ऋतवीर्यः कृतज्ञश्च शंतनुश्च महामनाः
भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः । यज्ञानाहृत्य बहुधा मोदंते दिवि भूभृतः
अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः । सर्वे ते दिवि चेंद्रेण मोदंते स्वेन कर्मणा
त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः । शक्रेण सह मोदस्व स्वर्गलोके महीपते
ययातिरुवाच- किं मया तत्कृतं कर्म येन मय्यर्थिता तव । इंद्रस्य देवराजस्य तत्सर्वं मे वदस्व च
मातलिरुवाच- [http://www.angelfire.com/in4/vedastudy/pur_index23/matali.htm मातलि उपरि टिप्पणी] यदशीतिसहस्राणि वर्षाणां हि त्वया नृप । दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम्
दिवं गच्छ महाराज कर्मणा स्वेन भूपते । सखित्वं देवराजेन कुरु गच्छ सुरालयम्
पंचात्मकं शरीरं च भूमौ त्यज महामते । दिव्यरूपं समास्थाय भुंक्ष्व भोगान्मनोनुगान्