एष पुत्रस्य वै मोक्षस्तथा जन्मफलं शुभम् । एष पुत्रस्य वै यज्ञो दानमेव न संशयः
पितरं पूजयेन्नित्यं भक्त्या भावेन तत्परः । तस्य जातं समस्तं तद्यदुक्तं पूर्वमेव हि
दानस्यापि फलं तेन तीर्थस्यापि न संशयः । यज्ञस्यापि फलं प्राप्तं माता येनाप्युपासिता
पिता येन सुभक्त्या च नित्यमेवाप्युपासितः । तस्य सर्वा सुसंसिद्धा यज्ञाद्याः पुण्यदाः क्रियाः
एतदर्थं समाज्ञातं धर्मशास्त्रं श्रुतं मया । पितृभक्तिपरो नित्यं भवेत्पुत्रो हि पिप्पल
तुष्टे पितरि संप्राप्तं यदुराज्ञा पुरा सुखम् । रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृणु
रुरुणा पौरवेणापि पित्रा शप्तेन भूतले । एवं ज्ञानं मया चाप्तं द्वावेतौ यदुपासितौ
एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-माहात्म्ये त्रिषष्टितमोऽध्यायः
पिप्पलउवाच- पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम् । कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद
कस्मात्पापप्रभावं च रुरुर्भुंक्ते द्विजोत्तम । सकलं विस्तरेणापि वद मे कुंडलात्मज
सुकर्मोवाच- श्रूयतामभिधास्यामि चरित्रं पापनाशनम् । नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः
सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः । दानधर्माननेकांश्च चका रह्यतुलानपि
मखानामश्वमेधानामियाज शतमुत्तमम् । वाजपेयशतं चापि अन्यान्यज्ञाननेकधा
आत्मनः पुण्यभावेन इंद्रलोकमवाप सः । पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः
ययातिं सत्यसंपन्नं धर्मवीर्यं महामतिम् । एंद्रं पदं गतो राजा तस्य पुत्रः पदे स्वके
ययातिः सत्यसंपन्नः प्रजा धर्मेण पालयेत् । स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि
याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम् । यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः
राज्यं चकार मेधावी सत्यधर्मेण वै तदा । यावदशीतिसहस्राणि वर्षाणां नृपनंदनः
तावत्कालं गतं तस्य ययातेस्तु महात्मनः । तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः
तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः । तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः
पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः । यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः
एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः । तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः
एवं राज्यं कृतं तेन धर्मेणापि ययातिना । तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत्
विष्णुरुवाच- एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनंदनः । एंद्रं लोकं गतो राजन्द्रष्टुं चैव पुरंदरम्
सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम् । देवो विप्रं समायांतं सर्वज्ञं ज्ञानपंडितम्
पूजितं मधुपर्काद्यैर्भक्त्या नमितकंधरः । निवेश्य चासने पुण्ये पप्रच्छ मुनिपुंगवम्
इंद्र उवाच- कस्मादागमनं तेद्य किमर्थमिह चागतः । किं ते हि सुप्रियं विप्र करोम्यद्य महामुने
नारद उवाच- देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम् । संतुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम्
महीलोकात्सुसंप्राप्तः सांप्रतं तव मंदिरम् । त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च