स च पापी भवेद्व्याघ्रः पश्चादृक्षः प्रजायते । मातरंपितरं पुत्रो यो न मन्येत दुष्टधीः
कुंभीपाके वसेत्तावद्यावद्युगसहस्रकम् । नास्ति मातृसमं तीर्थं पुत्राणां च पितुः समम्
तारणाय हितायैव इहैव च परत्र च । तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये
मातृदेवं सर्वदेव योगयोगी तथाभवम् । मातृपितृप्रसादेन संजातं ज्ञानमुत्तमम्
त्रिलोकीयं समस्ता तु संयाता मम वश्यताम् । अर्वाचीनगतिं जाने देवस्यास्य महात्मनः
वासुदेवस्य तस्यैव पराचीनां महामते । सर्वं ज्ञानं समुद्भूतं पितृमातृप्रसादतः
को न पूजयते विद्वान्पितरं मातरं तथा । सांगोपांगैरधीतैस्तैः श्रुतिशास्त्रसमन्वितैः
वेदैरपि च किं विप्रा पिता येन न पूजितः । माता न पूजिता येन तस्य वेदा निरर्थकाः
यज्ञैश्च तपसा विप्र किं दानैः किं च पूजनैः । प्रयाति तस्य वैफल्यं न माता येन पूजिता
न पिता पूजितो येन जीवमानो गृहे स्थितः । एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह
एष पुत्रस्य वै मोक्षस्तथा जन्मफलं शुभम् । एष पुत्रस्य वै यज्ञो दानमेव न संशयः
पितरं पूजयेन्नित्यं भक्त्या भावेन तत्परः । तस्य जातं समस्तं तद्यदुक्तं पूर्वमेव हि
दानस्यापि फलं तेन तीर्थस्यापि न संशयः । यज्ञस्यापि फलं प्राप्तं माता येनाप्युपासिता
पिता येन सुभक्त्या च नित्यमेवाप्युपासितः । तस्य सर्वा सुसंसिद्धा यज्ञाद्याः पुण्यदाः क्रियाः
एतदर्थं समाज्ञातं धर्मशास्त्रं श्रुतं मया । पितृभक्तिपरो नित्यं भवेत्पुत्रो हि पिप्पल
तुष्टे पितरि संप्राप्तं यदुराज्ञा पुरा सुखम् । रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृणु
रुरुणा पौरवेणापि पित्रा शप्तेन भूतले । एवं ज्ञानं मया चाप्तं द्वावेतौ यदुपासितौ
एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-माहात्म्ये त्रिषष्टितमोऽध्यायः
पिप्पलउवाच- पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम् । कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद
कस्मात्पापप्रभावं च रुरुर्भुंक्ते द्विजोत्तम । सकलं विस्तरेणापि वद मे कुंडलात्मज
सुकर्मोवाच- श्रूयतामभिधास्यामि चरित्रं पापनाशनम् । नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः
सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः । दानधर्माननेकांश्च चका रह्यतुलानपि
मखानामश्वमेधानामियाज शतमुत्तमम् । वाजपेयशतं चापि अन्यान्यज्ञाननेकधा
आत्मनः पुण्यभावेन इंद्रलोकमवाप सः । पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः
ययातिं सत्यसंपन्नं धर्मवीर्यं महामतिम् । एंद्रं पदं गतो राजा तस्य पुत्रः पदे स्वके
ययातिः सत्यसंपन्नः प्रजा धर्मेण पालयेत् । स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि
याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम् । यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः
राज्यं चकार मेधावी सत्यधर्मेण वै तदा । यावदशीतिसहस्राणि वर्षाणां नृपनंदनः
तावत्कालं गतं तस्य ययातेस्तु महात्मनः । तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः