त्रिकालेध्यानसंलीनः साधयामि दिनेदिने । पादोदकं तयोश्चैव मातापित्रोर्दिनेदिने
भक्तिभावेन विंदामि पूजयामि सुभावतः । गुरू मे जीवमानौ तु यावत्कालं हि पिप्पल
तावत्कालं हि मे लाभो ह्यतुलश्च प्रजायते । त्रिकालं पूजयाम्येतौ शुद्धभावेन चेतसा
स्वच्छंदलीलासंचारी वर्ताम्येव हि पिप्पल । किं मे चान्येन तपसा किं मे कायस्य शोषणैः
किं मे सुतीर्थयात्राभिरन्यैः पुण्यैश्च सांप्रतम् । मखानामेव सर्वेषां यत्फलं प्राप्यते द्विज
तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि । मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम्
सर्वकर्मसुसर्वस्वं सारभूतं जगत्रये । पुत्रस्य जायते लोको मातुः शुश्रूषणादपि
पितुः शुश्रूषणे तद्वन्महत्पुण्यं प्रजायते । तत्र गंगा गयातीर्थं तत्र पुष्करमेव च
यत्र मातापिता तिष्ठेत्पुत्रस्यापि न संशयः । अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च
भवंत्येतानि पुत्रस्य पितुः शुश्रूषणादपि । पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम्
सत्पुत्रस्य भवेद्विप्र अन्य धर्मः श्रमायते । पितुः शुश्रूषणात्पुण्यं पुत्रः प्राप्नोत्यनुत्तमम्
स्वकर्मणस्तु सर्वस्वमिहैव च परत्र च । जीवमानौ गुरूत्वेतौ स्वमातापितरौ तथा
शुश्रूषते सुतो भूत्वा तस्य पुण्यफलं शृणु । देवास्तस्यापि तुष्यंति ऋषयः पुण्यवत्सलाः
त्रयोलोकास्तु तुष्यंति पितुः शुश्रूषणादिह । मातापित्रोस्तु यः पादौ नित्यमेव हि क्षालयेत्
तस्य भागीरथीस्नानमहन्यहनि जायते । पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा
भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम् । अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते
तांबूलैश्छादनैश्चैव पानैश्चाशनकैस्तथा । भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ
सर्वज्ञानी भवेत्सोपि यशःकीर्तिमवाप्नुयात् । मातरं पितरं दृष्ट्वा हर्षात्संभाषयेत्सुतः
निधयस्तस्य संतुष्टास्तस्य गेहे वसंति ते । गावः सौहृद्यमायांति पुत्रस्य सुखदाः सदा
सुकर्मोवाच- तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च स्नातयोः । पुत्रस्यापि हि सर्वांगे पतंत्यंबुकणा यदा
सर्वतीर्थसमं स्नानं पुत्रस्यापि सुजायते । पतितं विकलं वृद्धमशक्तं सर्वकर्मसु
व्याधितं कुष्ठिनं तातं मातरं च तथाविधाम् । उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम्
विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः । प्रयाति वैष्णवं लोकं यदप्राप्यं हि योगिभिः
पितरौ विकलौ दीनौ वृद्धावेतौ गुरू सुतः । महागदेन संप्राप्तौ परित्यजति पापधीः
पुत्रो नरकमाप्नोति दारुणं कृमिसंकुलम् । वृद्धाभ्यां च समाहूतो गुरूभ्यामिह सांप्रतम्
न प्रयाति सुतो भूत्वा तस्य पापं वदाम्यहम् । विष्ठाशी जायते मूढो ग्रामघ्रोणी न संशयः
यावज्जन्मसहस्रं तु पुनः श्वा चाभिजायते । पुत्रगेहेस्थितौ वृद्धौ माता च जनकस्तथा
अभोजयित्वा तावन्नं स्वयमत्ति च यः सुतः । मूत्रं विष्ठां स भुंजीत यावज्जन्मसहस्रकम्
कृष्णसर्पो भवेत्पापी यावज्जन्मशतद्वयम् । मातरंपितरं वृद्धमवज्ञाय प्रवर्त्तते
ग्राहोपि जायते दुष्टो जन्मकोटिशतैरपि । तावेतौ कुत्सते पुत्रः कटुकैर्वचनैरपि