कश्यप उवाच। वरं दातुं समर्थोऽसि देवदेव जगत्पते । शिरःस्थिता या गंगेयं पवित्रा पापहारिणी
मम देया विशेषेण महादेव नमोस्तुते । तदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम
जटामेकां परित्यज्य दत्ता गंगा तदा मया । तां गृहीत्वा द्विजश्रेष्ठः स्वस्थानं हर्षतो ययौ
केशरन्ध्रं नाम तीर्थं वासो वै कश्यपस्य च । गतस्तत्र तु देवेशि मुनिभिः परिवारितः
कश्यपेन समानीता काश्यपी सा सरिद्वरा । यस्या दर्शनमात्रेण ब्रह्महा मुच्यते किल
पार्वत्युवाच। स्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मे । विश्वनाथ कृपालुस्त्वं दयां कुरु ममोपरि
दर्शने किं भवेत्पुण्यं स्नाने किं वद देवराट् । महिमा कीदृशो ब्रह्मन्सर्वं त्वं वक्तुमर्हसि
महादेव उवाच। मया श्रुतान्यनेकानि तीर्थान्यायतनानि च । श्रीविष्णोश्च प्रसादाच्च नद्यः सागरगाः प्रभोः
गंगा च यमुना रेवा तापी चैव महानदी । गोदावरी तुंगभद्रा कौशिकी गल्लिका तथा
कावेरी वेदिका भद्रा सरयूः पापहारिणी । अन्याश्च विविधा नद्यः सर्वपापहरा भुवि
प्रयागस्तीर्थराजश्च काशी पुष्कर एव च । नैमिषारण्यसंज्ञं तु तीर्थं चामरकंटकम्
उत्तमं द्वारकाक्षेत्रमर्बुदारण्यमुत्तमम् । एवंविधानि दिव्यानि क्षेत्राणि विविधानि च
श्रुतानि तत्र देवेशि माया विष्णोः प्रसादतः । पूर्वं भगीरथेनैव याचितोऽहं तु पार्वति
तदा दत्ता इयं गंगा विष्णोर्लोकमभीप्सुना । कश्यपाय पुनर्दत्ता ऋषीणां वचनान्मया
इयं वै काश्यपी गंगा रोगदोषहरा सदा । इयं या कथ्यते लोके युगे वै नामपूर्वकम्
तदहं कथयिष्यामि शृणु सुंदरि तत्वतः । कृते कृतवती नाम त्रेतायां गिरिकर्णिका
द्वापरे चंदना नाम कलौ साभ्रमती स्मृता । दिनेदिने विशेषेण स्नानार्थं तु नराश्च ये
सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् । प्लक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि
केदारे च कुरुक्षेत्रे यत्फलं स्नानतो भवेत् । तत्फलं तु नृणां नूनं साभ्रमत्या दिने दिने
भवतीति न संदेहो व्यासस्य वचनं यथा । नभस्येपरपक्षे तु प्रत्यहं वा सुरेश्वरि
अमावास्यादिने सम्यक्श्राद्धदाने च यत्फलम् । नरस्तत्फलमाप्नोति साभ्रमत्यावगाहनात्
कार्तिक्यां कृत्तिकायोगे श्रीस्थले माधवाग्रतः । तत्फलं लभते मर्त्यो साभ्रमत्यावगाहनात्
एषा श्रेष्ठतमा देवि सर्वलोकेषु पावनी । इयं धन्यतमा देवि पवित्रा ह्यघनाशिनी
यस्यां वै साभ्रमत्यां च एते तिष्ठंति नित्यशः । पूर्वं संबंधिनो ये च उत्तरे ये तथा पुनः
पाश्चात्या दाक्षिणात्याश्च सर्वे यांति च नित्यशः । तीर्थयात्रामिषेणैव खेटके ब्रह्मसन्निधौ
आयांति सर्वदा देवि कार्तिक्यां च न संशयः । तत्र श्राद्धं प्रकुर्वंति तथा वै विप्रभोजनम्
नाना धर्मान्प्रकुर्वंति नानायज्ञांश्च नित्यशः । विविधानि च दानानि प्रकुर्वंति जनाः सदा
चतुर्युगेषु सर्वेषु नात्र कार्या विचारणा । यवक्रीतोऽथ रैभ्यश्च काक्षीवानुशिजस्तथा
भृग्वंगिरास्तथा कण्वो मेधावी च पुनर्वसुः । बंदी च गुणसंपन्नः प्राच्यां दिशि उपश्रिताः
उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथा । सुबंधुश्च महाभागो दत्तात्रेयश्च वीर्यवान्