सर्वत्र दृश्यते विप्र व्यापकः पादवर्जितः । यं न पश्यंति देवेंद्रा मुनयस्तत्त्वदर्शिनः
स च पश्यति तान्सर्वान्सत्यासत्यपदे स्थितान् । व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम्
यं जानाति महायोगी व्यासो धर्मार्थकोविदः । तेजोमूर्तिः स चाकाशमेकवर्णमनंतकम्
तदेतन्निर्मलं रूपं श्रुतिराख्याति निश्चितम् । व्यासश्चैव हि जानाति मार्कंडेयश्च तत्पदम्
अर्वाचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः । यदा संहृत्य भूतात्मा स्वयमेकः प्रगच्छति
अप्सु शय्यां समास्थाय शेषभोगासनस्थितः । तमाश्रित्य स्वपित्येको बहुकालं जनार्दनः
जलांधकारसंतप्तो मार्कंडेयो महामुनिः । स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः
भ्रममाणः स ददृशे शेषपर्यंकशायिनम् । सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम्
दिव्यमाल्यांबरधरं सर्वव्यापिनमीश्वरम् । योगनिद्रा गतं कांतं शंखचक्रगदाधरम्
एका नारी महाभागा कृष्णांजनचयोपमा । दंष्ट्राकरालवदना भीमरूपा द्विजोत्तम
तयोक्तोसौ मुनिश्रेष्ठो मा भैरिति महामुनिः । पद्मपत्रं सुविस्तीर्णं पंचयोजनमायतम्
तस्मिन्पत्रे महादेव्या मार्कण्डेयो निवेशितः । केशवे सति सुप्तेपि नास्त्यत्र च भयं तव
तामुवाच स योगींद्र का त्वं भवसि भामिनि । अस्मिन्विनिर्जिते चैका भवती परिबृंहिता
पृष्टैवं मुनिना देवी सादरं प्राह भूसुर । नागभोगांकपर्यंके स यः स्वपिति केशवः
अस्याहं वैष्णवी शक्तिः कालरात्रिरिहोच्यते । मामेवं विद्धि विप्रेंद्र सर्वमायासमन्विताम्
महामाया पुराणेषु जगन्मोहाय कथ्यते । इत्युक्त्वा सा गता देवी अंतर्धानं हि पिप्पलः
देव्यामनुगतायां तु मार्कंडेयस्य पश्यतः । तस्य नाभ्यां समुत्पन्नं पंकजं हाटकप्रभम्
तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः । तस्माद्विजज्ञिरे लोकाः सर्वे स्थावरजंगमाः
इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः । अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप
अर्वाचीनस्वरूपोयं पराचीनो निराश्रयः । यदा स दर्शयेत्कायं कायरूपा भवंति ते
ब्रह्माद्याः सर्वलोकाश्च अर्वाचीना हि पिप्पल । अर्वाचीना अमी लोका ये भवंति जगत्त्रये
पराचीनः स भूतात्मा यं सुपश्यंति योगिनः । मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम्
अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम् । पराचीनस्य यद्रूपं विद्याधर तवाग्रतः
सर्वमेव मया ख्यातमन्यत्किं ते वदाम्यहम् । पिप्पल उवाच- कस्मादेतन्महाज्ञानमुद्भूतं तव सुव्रत
अर्वाचीनगतिं विद्वान्पराचीनगतिं तथा । त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते
तपसो नैव पश्यामि परां निष्ठां हि सुव्रत । यजनंयाजनंतीर्थंतपोवाकृतवानसि
तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलम् । सुकर्मोवाच- तप एव न जानामि न कृतं कायशोषणम्
यजनं याजनं वापि न जाने तीर्थसाधनम् । न मया साधितं ध्यानं पुण्यकालं सुकर्मजम्
स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम् । उभयोरपि हस्तेन मातापित्रोस्तु नित्यशः
पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम् । अंगसंवाहनं स्नानं भोजनादिकमेव च