वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते । पराचीनं न जानासि पिप्पल त्वं हि मूढधीः
वर्षाणां तु सहस्राणि यावत्त्रीणि त्वया तपः । समाचीर्णं ततो गर्वं कुरुषे किं मुधा द्विज
कुंडलस्य सुतो धीरः सुकर्मानाम यः सुधीः । वश्यावश्यं जगत्सर्वं तस्यासीच्छृणु सांप्रतम्
अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान् । लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल
न कुंडलस्य पुत्रेण सदृशस्त्वं सुकर्मणा । न दत्तं तेन वै दानं न ज्ञानं परिचिंतितम्
हुतयज्ञादिकं कर्म न कृतं तेन वै कदा । न गतस्तीर्थयात्रायां न च वह्नेरुपासनम्
स कदा कृतवान्विप्र धर्मसेवार्थमुत्तमम् । स्वच्छंदचारी ज्ञानात्मा पितृमातृसुहृत्सदा
वेदाध्ययनसंपन्नः सर्वशास्त्रार्थकोविदः । यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः
तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुद्वहेः । पिप्पल उवाच- को भवान्पक्षिरूपेण मामेवं परिकुत्सयेत्
कस्मान्निंदसि मे ज्ञानं पराचीनं तु कीदृशम् । तन्मे विस्तरतो ब्रूहि त्वयि ज्ञानं कथं भवेत्
अर्वाचीनगतिं सर्वां पराचीनस्य सांप्रतम् । वद त्वमंडजश्रेष्ठ ज्ञानपूर्वं सुविस्तरम्
किं वा ब्रह्मा च विष्णुश्च किं वा रुद्रो भविष्यसि । सारस उवाच- नास्ति ते तपसो भावः फलं नास्ति च तस्य तु
त्वया न परितप्तस्य तपसः सांप्रतं शृणु । कुंडलस्यापि पुत्रस्य बालस्यापि यथा गुणः
तथा ते नास्ति वै ज्ञानं परिज्ञातं न तत्पदम् । इतो गत्वापि पृच्छ त्वं मम रूपं द्विजोत्तम
स वदिष्यति धर्मात्मा सर्वं ज्ञानं तवैव हि । विष्णुरुवाच- एवमाकर्ण्य तत्सर्वं सारसेन प्रभाषितम्
निर्जगाम स वेगेन दशारण्यं महाश्रमम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने एकषष्टितमोऽध्यायः
विष्णुरुवाच- कुंडलस्याश्रमं गत्वा सत्यधर्म समाकुलम् । सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम्
शुश्रूषंतं महात्मानं गुरूसत्यपराक्रमम् । महारूपं महातेजं महाज्ञानसमाकुलम्
मातापित्रोः पदांते तमुपविष्टं ददर्श सः । महाभक्त्यान्वितं शांतं सर्वज्ञानमहानिधिम्
कुंडलस्यापि पुत्रेण सुकर्मणा महात्मना । आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम्
आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः । आगच्छ त्वं महाभाग विद्याधर महामते
आसनं पाद्यमर्घं च ददौ तस्मै महामतिः । निर्विघ्नोऽसि महाप्राज्ञ कुशलेन प्रवर्त्तसे
निरामयं च पप्रच्छ पिप्पलं तं समागतम् । यस्मादागमनं तेद्य तत्सर्वं प्रवदाम्यहम्
वर्षाणां च सहस्राणि त्रीणि यावत्त्वया तपः । तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम्
वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च । तेन मत्तो न जानासि गर्वमुद्वहसे वृथा
दृष्ट्वा ते चेष्टितं सर्वं सारसेन महात्मना । ममाभिधानं कथितं मम ज्ञानमनुत्तमम्
पिप्पल उवाच- योसौ मां सारसो विप्र सरित्तीरे प्रयुक्तवान् । सर्वं ज्ञानं वदेन्मां हि स तु कः प्रभुरीश्वरः
सुकर्मोवाच- भवंतमुक्तवान्यो वै सरित्तीरे तु सारसः । ब्रह्माणं त्वं महाज्ञानं तं विद्धि परमेश्वरम्
अन्यत्किं पृच्छसे ब्रूहि तमेवं प्रवदाम्यहम् । विष्णुरुवाच- एवमुक्तः स धर्मात्मा सुकर्मा नृपनंदन