इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे वेत्रवती माहात्म्ये चतुस्त्रिंशाधिकशततमोऽध्यायः
श्रीमहादेव उवाच। साभ्रमत्यास्तु माहात्म्यं वक्ष्ये देवि यथातथम् । कश्यपो वै मुनिश्रेष्ठस्तपो वै तप्तवान्महत्
अनेकवर्षपर्यंतं तेन तप्तं महत्तपः । अर्बुदे पर्वते रम्ये नानाद्रुमसमाकुले
तत्र गत्वा तपस्तप्तं ऋषिणा कश्यपेन वै । सरस्वती यत्र रम्या पवित्रा पापनाशिनी
एकस्मिन्दिवसे देवि गतोऽसौ नैमिषं प्रति । तदा ते ऋषयः सर्वे कथां चक्रुरनेकशः
तदा तैस्तु द्विजैः सम्यक्पृष्टोऽसौ कश्यपो मुनिः । अहो कश्यप नः प्रीत्यै गंगेहानीयतां प्रभो
भवन्नाम्ना तु सा गंगा भविष्यति सरिद्वरा । तेषां वाक्यमुपाकर्ण्य नमस्कृत्य द्विजांश्च तान्
आगतो ह्यर्बुदारण्ये सरस्वतीतीरसंनिधौ । तत्र तप्तं तदा तेन तपः परमदुष्करम्
आराधितो ह्यहं तेन कश्यपेन द्विजेन वै । प्रत्यक्षोऽहं तदा जातस्तस्य द्विजवरस्य च
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते
कश्यप उवाच। वरं दातुं समर्थोऽसि देवदेव जगत्पते । शिरःस्थिता या गंगेयं पवित्रा पापहारिणी
मम देया विशेषेण महादेव नमोस्तुते । तदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम
जटामेकां परित्यज्य दत्ता गंगा तदा मया । तां गृहीत्वा द्विजश्रेष्ठः स्वस्थानं हर्षतो ययौ
केशरन्ध्रं नाम तीर्थं वासो वै कश्यपस्य च । गतस्तत्र तु देवेशि मुनिभिः परिवारितः
कश्यपेन समानीता काश्यपी सा सरिद्वरा । यस्या दर्शनमात्रेण ब्रह्महा मुच्यते किल
पार्वत्युवाच। स्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मे । विश्वनाथ कृपालुस्त्वं दयां कुरु ममोपरि
दर्शने किं भवेत्पुण्यं स्नाने किं वद देवराट् । महिमा कीदृशो ब्रह्मन्सर्वं त्वं वक्तुमर्हसि
महादेव उवाच। मया श्रुतान्यनेकानि तीर्थान्यायतनानि च । श्रीविष्णोश्च प्रसादाच्च नद्यः सागरगाः प्रभोः
गंगा च यमुना रेवा तापी चैव महानदी । गोदावरी तुंगभद्रा कौशिकी गल्लिका तथा
कावेरी वेदिका भद्रा सरयूः पापहारिणी । अन्याश्च विविधा नद्यः सर्वपापहरा भुवि
प्रयागस्तीर्थराजश्च काशी पुष्कर एव च । नैमिषारण्यसंज्ञं तु तीर्थं चामरकंटकम्
उत्तमं द्वारकाक्षेत्रमर्बुदारण्यमुत्तमम् । एवंविधानि दिव्यानि क्षेत्राणि विविधानि च
श्रुतानि तत्र देवेशि माया विष्णोः प्रसादतः । पूर्वं भगीरथेनैव याचितोऽहं तु पार्वति
तदा दत्ता इयं गंगा विष्णोर्लोकमभीप्सुना । कश्यपाय पुनर्दत्ता ऋषीणां वचनान्मया
इयं वै काश्यपी गंगा रोगदोषहरा सदा । इयं या कथ्यते लोके युगे वै नामपूर्वकम्
तदहं कथयिष्यामि शृणु सुंदरि तत्वतः । कृते कृतवती नाम त्रेतायां गिरिकर्णिका
द्वापरे चंदना नाम कलौ साभ्रमती स्मृता । दिनेदिने विशेषेण स्नानार्थं तु नराश्च ये
सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् । प्लक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि
केदारे च कुरुक्षेत्रे यत्फलं स्नानतो भवेत् । तत्फलं तु नृणां नूनं साभ्रमत्या दिने दिने
भवतीति न संदेहो व्यासस्य वचनं यथा । नभस्येपरपक्षे तु प्रत्यहं वा सुरेश्वरि