श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम् । सौभाग्येन तु सत्येन पुत्रपौत्रैर्न मुच्यते
मोदते धनधान्येन सहभर्त्रा सुखी भवेत् । पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् । धनधान्यं भवेच्चैव वैश्यगेहे न संशयः
धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत् । शूद्र सुःखमवाप्नोति पुत्रपौत्रैः प्रवर्धते
विपुला जायते लक्ष्मीर्धनधान्यैरलंकृता
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षष्टितमोऽध्यायः
वेन उवाच- भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमम् । पितृतीर्थं समाख्याहि पुत्राणां तारणं परम्
विष्णुरुवाच- कुरुक्षेत्रे महाक्षेत्रे कुंडलो नाम ब्राह्मणः । सुकर्मा नाम सत्पुत्रः कुंडलस्य महात्मनः
गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ । द्वावेतौ तु महात्मानौ जरया परिपीडितौ
तयोः शुश्रूषणं चक्रे भक्त्या च परया ततः । धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम्
तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः । सर्वाचारपरो दक्षो धर्मज्ञो ज्ञानवत्सलः
अंगसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः । पादप्रक्षालनं चैव स्नानभोजनकीं क्रियाम्
भक्त्या चैव स्वभावेन तद्ध्याने तन्मयो भवेत् । मातापित्रोश्च राजेंद्र उपचर्यां प्रकारयेत्
सूत उवाच- तद्वर्तमानकाले तु बभूव नृपसत्तम । पिप्पलो नाम वै विप्रः कश्यपस्य महात्मनः
तपस्तेपे निराहारो जितात्मा जितमत्सरः । दयादानदमोपेतः कामं क्रोधं विजित्य सः
दशारण्यगतो धीमाञ्ज्ञानशांतिपरायणः । सर्वेंद्रियाणि संयम्य तपस्तेपे महामनाः
तपःप्रभावतस्तस्य जंतवो गतविग्रहाः । वसंति सुयुगे तत्र एकोदरगता इव
तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः । नेदृशं केनचित्तप्तं यथासौ तप्यते मुनिः
देवाश्च इंद्रप्रमुखाः परं विस्मयमाययुः । अहो अस्य तपस्तीव्रं शमश्चेंद्रियसंयमः
निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः । शीतवातातपसहो धराधर इवस्थितः
विषये विमुखो धीरो मनसोतीतसंग्रहम् । न शृणोति यथा शब्दं कस्यचिद्द्विजसत्तमः
संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानसः । ब्रह्मध्यानमयो भूत्वा सानंदमुखपंकजः
अश्मकाष्ठमयो भूत्वा निश्चेष्टो गिरिवत्स्थितः । स्थाणुवद्दृश्यते चासौ सुस्थिरो धर्मवत्सलः
तपःक्लिष्टशरीरोति श्रद्धावाननसूयकः । एवं वर्षसहस्रैकं संजातं तस्य धीमतः
पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसंचयम् । तस्योपरि महाकायं वल्मीकं निजमंदिरम्
वल्मीकोदरमध्यस्थो जडीभूत इवस्थितः । स एवं पिप्पलो विप्रस्तपते सुमहत्तपः
कृष्णसर्पैस्तु सर्वत्र वेष्टितो द्विजसत्तमः । तमुग्रतेजसं विप्रं प्रदशंति विषोल्बणाः
संप्राप्य गात्रमर्माणि विषं तस्य न भेदयेत् । तेजसा तस्य विप्रस्य नागाः शांतिमथागमन्
तस्य कायात्समुद्भूता अर्चिषो दीप्ततेजसः । नानारूपाः सुबहुशो दृश्यंते च पृथक्पृथक्
यथा वह्नेः खरतरास्तथाविधा नरोत्तम । यथामेघोदरे सूर्यः प्रविष्टो भाति रश्मिभिः