स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम् । सार्थवाहेन तेनापि स्वस्थानं प्राप्य बुद्धिमान्
तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम् । कृतं सुमंगलं पुण्यं भर्तुरागमने तदा
समाचष्ट स धर्मात्मा धर्मस्यापि विचेष्टितम् । समाकर्ण्य महाभागा भर्तुर्वाक्यं मुदावहम्
धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा । विष्णुरुवाच- अथो स कृकलो वैश्यस्तया सार्धं सुपुण्यकम्
चकार श्रद्धया श्राद्धं देवतागृहसंस्थितः । पितरो देव गंधर्वा विमानैश्च समागताः
तुष्टुवुस्तौ महात्मानौ दंपती मुनयस्तथा । अहं चापि तथा ब्रह्मा देव्यायुक्तो महेश्वरः
सर्वे देवाः सगंधर्वा विमानैश्च समागताः । अहमेव ततो ब्रह्मा देव्यायुक्तो महेश्वरः
सर्वे देवाः सगंधर्वास्तस्याः सत्येन तोषिताः । ऊचुश्च तौ महात्मानौ धर्मज्ञौ सत्यपंडितौ
भार्यया सह भद्रं ते वरं वरय सुव्रत । कृकल उवाच- कस्य पुण्यप्रसंगेन तपसश्च सुरोत्तमाः
सभार्याय वरं दातुं भवंतो हि समागताः । इंद्र उवाच- एषा सती महाभागा सुकला चारुमंगला
अस्याः सत्येन तुष्टाः स्म दातुकामा वरं तव । समासेन तु तत्प्रोक्तं पूर्ववृत्तांतमेव च
तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः । तया सह स धर्मात्मा हर्षव्याकुललोचनः
ननाम देवताः सर्वा उवाच च पुनः पुनः । यदि तुष्टा महाभागा त्रयो देवाः सनातनाः
अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि । जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम्
धर्मसत्यरतिः स्यान्मे भवतां हि प्रसादतः । पश्चाद्धि वैष्णवं लोकं सभार्यश्च पितामहैः
गंतुमिच्छाम्यहं देवा यदि तुष्टा महौजसः । देवा ऊचुः- एवमस्तु महाभाग सर्वमेव भविष्यति
पुष्पवृष्टिं ततश्चक्रुस्तयोरुपरि भूपते । जगुर्गीतं महापुण्यं ललितं सुस्वरं ततः
गंधर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः । ततो देवाः सगंधर्वाः स्वंस्वं स्थानं नृपोत्तम
वरं दत्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम् । नारीतीर्थं समाख्यातमन्यत्किंचिद्वदामि ते
एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम् । यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते
श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम् । सौभाग्येन तु सत्येन पुत्रपौत्रैर्न मुच्यते
मोदते धनधान्येन सहभर्त्रा सुखी भवेत् । पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् । धनधान्यं भवेच्चैव वैश्यगेहे न संशयः
धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत् । शूद्र सुःखमवाप्नोति पुत्रपौत्रैः प्रवर्धते
विपुला जायते लक्ष्मीर्धनधान्यैरलंकृता
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षष्टितमोऽध्यायः
वेन उवाच- भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमम् । पितृतीर्थं समाख्याहि पुत्राणां तारणं परम्
विष्णुरुवाच- कुरुक्षेत्रे महाक्षेत्रे कुंडलो नाम ब्राह्मणः । सुकर्मा नाम सत्पुत्रः कुंडलस्य महात्मनः
गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ । द्वावेतौ तु महात्मानौ जरया परिपीडितौ
तयोः शुश्रूषणं चक्रे भक्त्या च परया ततः । धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम्