पितरो गेहमध्यस्थाः श्रेयो वांछंति तस्य च । गंगाद्याः पुण्यनद्यश्च सागरास्तत्र नान्यथा
पुण्या सती यस्य गेहे वर्तते सत्यतत्परा । तत्र यज्ञाश्च गावश्च ऋषयस्तत्र नान्यथा
तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च । भार्यायोगेन तिष्ठंति सर्वाण्येतानि नान्यथा
पुण्यभार्याप्रयोगेण गार्हस्थ्यं संप्रजायते । गार्हस्थ्यात्परमो धर्मो द्वितीयो नास्ति भूतले
गृहस्थस्य गृहः पुण्यः सत्यपुण्यसमन्वितः । सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः
गार्हस्थ्यं च समाश्रित्य सर्वे जीवंति जंतवः । तादृशं नैव पश्यामि अन्यमाश्रममुत्तमम्
मंत्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः । दानाचाराः प्रवर्तंते यस्य पुंसश्च वै गृहे
एवं यो भार्यया हीनस्तस्यगेहं वनायते । यज्ञाश्च वै न सिध्यंति दानानि विविधानि च
भार्याहीनस्य पुंसोपि न सिध्यति महाव्रतम् । धर्मकर्माणि सर्वाणि पुण्यानि विविधानि च
नास्ति भार्यासमं तीर्थं धर्मसाधनहेतवे । शृणुष्व त्वं गृहस्थस्य नान्यो धर्मो जगत्त्रये
यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा । ग्रामे वाप्यथवारण्ये सर्वधर्मस्य साधनम्
नास्ति भार्यासमं तीर्थं नास्ति भार्यासमं सुखम् । नास्ति भार्यासमं पुण्यं तारणाय हिताय च
धर्मयुक्तां सतीं भार्यां त्यक्त्वा यासि नराधम । गृहं धर्मं परित्यज्य क्वास्ते धर्मस्य ते फलम्
तया विना यदा तीर्थे श्राद्धदानं कृतं त्वया । तेन दोषेण वै बद्धास्तव पूर्वपितामहाः
भवांश्चौरो ह्यमी चौरा यैस्तु भुक्तं सुलोलुपैः । त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना
सुपुत्रः श्रद्धया युक्तः श्राद्धदानं ददाति यः । भार्या दत्तेन पिंडेन तस्य पुण्यं वदाम्यहम्
यथाऽमृतस्य पानेन नृणां तृप्तिर्हि जायते । तथा पितॄणां श्राद्धेन सत्यंसत्यं वदाम्यहम्
गार्हस्थ्यस्य च धर्मस्य भार्या भवति स्वामिनी । त्वयैषा वंचिता मूढ चौरकर्मकृतं वृथा
अमी पितामहाश्चौरा यैर्भुक्तं तु तया विना । भार्या पचति चेदन्नं स्वहस्तेनामृतोपमम्
तदन्नमेवभुंजंति पितरो हृष्टमानसाः । तेनैव तृप्तिमायांति संतुष्टाश्च भवंति ते
तस्माद्भार्यां विना धर्मः पुरुषस्य न सिध्यति । नास्ति भार्यासमं तीर्थं पुंसां सुगतिदायकम्
भार्यां विना च यो धर्मः स एव विफलो भवेत्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे एकोनषष्टितमोऽध्यायः
कृकल उवाच- कथं मे जायते सिद्धिः कथं पितृविमोचनम् । एतन्मे विस्तरेणापि धर्मराज वदाधुना
धर्म उवाच- गच्छ गेहं महाभाग त्वां विना दुःखमाचरत् । संबोधय त्वं सुकलां स्वपत्नीं धर्मचारिणीम्
श्राद्धदानं गृहं गत्वा तस्या हस्तेन वै कुरु । स्मृत्वा पुण्यानि तीर्थानि यजस्व त्वं सुरोत्तमान्
तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति । भार्यां विना तु यो लोके धर्मं साधितुमिच्छति
स गार्हस्थ्यं विलोप्यैव एकाकी विचरेद्वनम् । विफलो जायते लोके तं न मन्यंति देवताः
यज्ञाः सिद्धिं तदायांति यदा स्याद्गृहिणी गृहे । एकाकी स समर्थो न धर्मार्थसाधनाय च
विष्णुरुवाच- एवमुक्त्वा च तं वैश्यं गतो धर्मो यथागतम् । कृकलोपि स धर्मात्मा स्वगृहं प्रतिप्रस्थितः