न चास्वादयते सा तु सुरसान्सा महासती । स सखा कामदेवस्य रममाणो विनिर्जितः
लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः । फलेभ्यो हि सुपक्वेभ्यः पुष्पमंजरिसंस्कृतः
लवरूपोपतद्भूमौ रसस्त्वेष तया जितः । मकरंदः सुदीनात्मा फलाद्भूमिं ततः पुनः
भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा । मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः
मंदंमंदं प्रयात्येव तं हसंति च पक्षिणः । नानारुतैः प्रचलंति सुखमानंदनिर्भरैः
प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः । सुकलया जितो ह्येष निम्नं पंथानमाश्रितः
प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य । स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम्
ते रूपमिष्टममलमिंद्रस्यापि महात्मनः । यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः
सूत उवाच- वदंत्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम् । रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः
यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता । तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः
द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते । व्रीडमाने गते ते द्वे यत्र कामो महाबलः
ऊचतुस्तं महावीरमिंद्रकाय समाश्रितम् । चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम्
दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः । पतिकामा महाभागा पतिव्रता सदैव सा
काम उवाच- अनया लोक्यते रूपमिंद्रस्यास्य महात्मनः । यदि देवि तदा चाहं हनिष्यामि न संशयः
अथ वेषधरो देवो महारूपः सुराधिपः । स तयानुगतस्तूर्णं परया लीलया तदा
सर्वभोगसमाकीर्णः सर्वाभरणशोभितः । दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः
तया रत्या समायातो यत्रास्ते पतिदेवता । प्रत्युवाच महाभागां सुकलां सत्यचारिणीम्
पूर्वं दूती समक्षं ते प्रीत्या च प्रहिता मया । कस्मान्न मन्यसे भद्रे भजंतं त्वामिहागतम्
सुकलोवाच- रक्षायुक्तास्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः । एकाकिनीसहायैश्च नैव कस्य भयं मम
शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता । नाति प्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च
यावत्प्रस्यंदते नेत्रं तावत्कालं महामते । भवान्न लज्जते कस्माद्रममाणो मया सह
भवान्को हि समायातो निर्भयो मरणादपि । इंद्र उवाच- त्वामेवं हि प्रपश्यामि वनमध्ये समागताम्
समाख्यातास्त्वया शूरा भर्तुश्च तनयाः पुनः । कथं पश्याम्यहं तावद्दर्शयस्व ममाग्रतः
सुकलोवाच- सनिजसकलवर्गस्याधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्य्ख्यैस्तु संन्यस्य सत्यम् । अचलसकलधर्मो नित्ययुक्तो महात्मा मदनसबलधर्मात्मा सदामां जुगोप
मामेवं परिरक्षते दमगुणैः शौचैस्तु धर्मः सदा सत्यं पश्य समागतं मम पुरः शांतिक्षमाभ्यांयुतम् । बोधश्चातिमहाबलः पृथुयशा यो मां न मुंचेत्कदा बद्धाहं दृढबंधनैः स्वगुणजैः सांनिध्यमेवं गतः
रक्षायुक्ताः कृताः सर्वे सत्याद्या मम सांप्रतम् । धर्मलाभादिकाः सर्वे दमबुद्धिपराक्रमाः
मामेवं हि प्ररक्षंति किं मां प्रार्थयसे बलात् । को भवान्निर्भयो भूत्वा दूत्या सार्धं समागतः
सत्यं धर्मस्तथा पुण्यं ज्ञानाद्याः प्रबलास्तथा । मम भर्तुः सहायाश्च ते मां रक्षंति वेश्मनि
अहं रक्षायुता नित्यं दमशांतिपरायणा । न मां जेतुं समर्थश्च अपि साक्षाच्छचीपतिः
यदि वा मन्मथो वापि समागच्छति वीर्यवान् । दंशिताहं सदा सत्यं सत्यकेनैव नान्यथा