तवरूपं समाश्रित्य तां साधये यथेप्सिताम् । एवमुक्त्वा स देवेंद्रं कायं तस्य महात्मनः
सखासौ माधवस्यापि समाश्रित्य सुमायुधः
तामेव हंतुं कुसुमायुधोपि साध्वीं सुपुण्यां कृकलस्य भार्याम् । समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सप्तपंचाशत्तमोऽध्यायः
विष्णुरुवाच- क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी । ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सती सा
अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम् । सिद्धंसुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात्सुकला सखीं ताम्
क्रीडोवाच- एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेन । पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य
एवं वाक्यं ततः श्रुत्वा हर्षेण महतान्विता । समालोक्य महद्वृत्तं कामस्य च दुरात्मनः
वायुना नीयमानं तं समाघ्राति न सौरभम् । वाति वायुः स्वभावेन सौरभेण समन्वितः
तद्बाणो विशतेनासां यथा तथा सुलीलया । सा गंधं नैव गृह्णाति पुष्पाणां च वरानना
न चास्वादयते सा तु सुरसान्सा महासती । स सखा कामदेवस्य रममाणो विनिर्जितः
लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः । फलेभ्यो हि सुपक्वेभ्यः पुष्पमंजरिसंस्कृतः
लवरूपोपतद्भूमौ रसस्त्वेष तया जितः । मकरंदः सुदीनात्मा फलाद्भूमिं ततः पुनः
भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा । मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः
मंदंमंदं प्रयात्येव तं हसंति च पक्षिणः । नानारुतैः प्रचलंति सुखमानंदनिर्भरैः
प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः । सुकलया जितो ह्येष निम्नं पंथानमाश्रितः
प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य । स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम्
ते रूपमिष्टममलमिंद्रस्यापि महात्मनः । यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः
सूत उवाच- वदंत्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम् । रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः
यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता । तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः
द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते । व्रीडमाने गते ते द्वे यत्र कामो महाबलः
ऊचतुस्तं महावीरमिंद्रकाय समाश्रितम् । चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम्
दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः । पतिकामा महाभागा पतिव्रता सदैव सा
काम उवाच- अनया लोक्यते रूपमिंद्रस्यास्य महात्मनः । यदि देवि तदा चाहं हनिष्यामि न संशयः
अथ वेषधरो देवो महारूपः सुराधिपः । स तयानुगतस्तूर्णं परया लीलया तदा
सर्वभोगसमाकीर्णः सर्वाभरणशोभितः । दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः
तया रत्या समायातो यत्रास्ते पतिदेवता । प्रत्युवाच महाभागां सुकलां सत्यचारिणीम्
पूर्वं दूती समक्षं ते प्रीत्या च प्रहिता मया । कस्मान्न मन्यसे भद्रे भजंतं त्वामिहागतम्
सुकलोवाच- रक्षायुक्तास्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः । एकाकिनीसहायैश्च नैव कस्य भयं मम
शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता । नाति प्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च