पौरुषं दर्शयाद्यैव यद्यस्ति कुरु निश्चितम् । काम उवाच- आत्मरूपं दर्शयस्व चतुरं लीलयान्वितम्
येनाहं प्रहराम्येतां पंचबाणैः सहस्रदृक् । इंद्र उवाच- क्वास्ते ते पौरुषं मूढ येन लोकं विडंबसे
ममाधारपरोभूत्वा योद्धुमिच्छसि सांप्रतम् । काम उवाच- तेनापि देवदेवेन महादेवेन शूलिना
पूर्वमेव हृतं रूपं ममकायो न विद्यते । इच्छाम्यहं यदा नारीं हंतुं शृणुष्व सांप्रतम्
पुंसां कायं समाश्रित्य आत्मरूपं प्रदर्शये । पुमांसं वा सहस्राक्ष नार्याः कार्यं समाश्रये
पूर्वदृष्टा यदा नारी तामेव परिचिंतयेत् । चिंत्यमानस्य पुंसस्तु नार्यारूपं पुनःपुनः
अदृष्टं तु समाश्रित्य पुंसमुन्मादयाम्यहम् । तथाप्युन्मादयाम्येवं नारीरूपं न संशयः
संस्मरणात्स्मरो नाम मम जातं सुरेश्वर । तां दृष्ट्वा तादृशोरंग वस्तुरूपं समाश्रये
आत्मतेजः प्रकाशेन बाध्यबाधकतां व्रजेत् । नारीरूपं समाश्रित्य धीरं पुरुषं प्रमोहयेत्
पुरुषं तु समाश्रित्य भावयामि सुयोषितम् । रूपहीनोस्मि हे इंद्र अस्मद्रूपं समाश्रयेत्
तवरूपं समाश्रित्य तां साधये यथेप्सिताम् । एवमुक्त्वा स देवेंद्रं कायं तस्य महात्मनः
सखासौ माधवस्यापि समाश्रित्य सुमायुधः
तामेव हंतुं कुसुमायुधोपि साध्वीं सुपुण्यां कृकलस्य भार्याम् । समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सप्तपंचाशत्तमोऽध्यायः
विष्णुरुवाच- क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी । ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सती सा
अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम् । सिद्धंसुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात्सुकला सखीं ताम्
क्रीडोवाच- एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेन । पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य
एवं वाक्यं ततः श्रुत्वा हर्षेण महतान्विता । समालोक्य महद्वृत्तं कामस्य च दुरात्मनः
वायुना नीयमानं तं समाघ्राति न सौरभम् । वाति वायुः स्वभावेन सौरभेण समन्वितः
तद्बाणो विशतेनासां यथा तथा सुलीलया । सा गंधं नैव गृह्णाति पुष्पाणां च वरानना
न चास्वादयते सा तु सुरसान्सा महासती । स सखा कामदेवस्य रममाणो विनिर्जितः
लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः । फलेभ्यो हि सुपक्वेभ्यः पुष्पमंजरिसंस्कृतः
लवरूपोपतद्भूमौ रसस्त्वेष तया जितः । मकरंदः सुदीनात्मा फलाद्भूमिं ततः पुनः
भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा । मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः
मंदंमंदं प्रयात्येव तं हसंति च पक्षिणः । नानारुतैः प्रचलंति सुखमानंदनिर्भरैः
प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः । सुकलया जितो ह्येष निम्नं पंथानमाश्रितः
प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य । स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम्
ते रूपमिष्टममलमिंद्रस्यापि महात्मनः । यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः
सूत उवाच- वदंत्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम् । रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः
यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता । तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः