ईश्वरश्च जगत्स्वामी त्रिनेत्रो वृषवाहनः । मम गेहे स्वरूपेण वर्तते शिवया युतः
तदिदं संसृतेः सारं गृहरूपं महेश्वरम् । सदनं शंकरेत्याख्यं नाशितं मन्मथेन वै
विश्वामित्रं महात्मानं तपंतं तप उत्तमम् । मेनकां हि समाश्रित्य कामोयं जितवान्पुरा
सती पतिव्रताहल्या गौतमस्य प्रिया शुभा । सुसत्याच्चालिता तेन मन्मथेन दुरात्मना
मुनयः सत्यधर्मज्ञा नानास्त्रियः पतिव्रताः । मद्गृहास्ता इमाः सर्वा दीपिताः कामवह्निना
दुर्धरो दुःसहो व्यापी योतिसत्येषु निष्ठुरः । मामेवं पश्यते नित्यं क्व सत्यः परितिष्ठति
समां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः । नाशयेन्मद्गृहं पापो वीतिहोत्रैश्च नामकैः
पापलेशाश्च ये क्रूरा अन्ये पाखंडसंश्रयाः । ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशंति हि
सेनाध्यक्षैरसत्यैस्तु छद्मना तेन साधितः । पातयेदर्दयेद्गेहं पापः शस्त्रैर्दुरात्मभिः
मामेवं ताडयेत्पापो महाबल मनोभवः । अस्य धाम्ना प्रदग्धोहं शून्यतां हि व्रजामि वै
नूतनं गृहमिच्छामि स्त्रियाख्यं पतिभूपतिम् । कृकलस्यापि पुण्यस्य प्रियेयं शिवमंगला
तद्गृहं सुकलाख्यं मे दग्धुं पापः समुद्यतः । अयमेष सहस्राक्षः कामेन सहितो बली
कामस्य कारणात्कस्मात्पूर्ववृत्तं न विंदति । अहल्यायाः प्रसंगेन मेषोपस्थो व्यजायत
पौरुषं हि मुनेर्दृष्ट्वा सत्याश्चैव प्रधषर्णात् । नष्टः कामस्य दोषेण सुरराट्तत्र संस्थितः
भुक्तवान्दारुणं शापं दुःखेन महतान्वितः । कृकलस्य प्रियामेनां सुकलां पुण्यचारिणीम्
एष हंतुं सहस्राक्ष उद्यतः कामसंयुतः । यथा चेंद्रेण नायाति काम एष तथा कुरु
धर्मराज महाप्राज्ञ भवान्मतिमतां वरः । धर्मराज उवाच- ऊनं तेजः करिष्यामि कामस्य मरणं तथा
एकोपायो मया दृष्टस्तमिहैव प्रपश्यतु । प्रज्ञा चैषा महाप्राज्ञा शकुनीरूपचारिणी
भर्तुरागमनं पुण्यं शब्देनाख्यातु खे यतः । शकुनस्य प्रभावेण भर्तुश्चागमनेन च
दुष्टैर्नष्टा न भूयेत स्वस्थचित्ता न संशयः । प्रज्ञा संप्रेषिता तेन गता सा सुकलागृहम्
प्रकुर्वती महच्छब्दं दृष्टदेवेव सा बभौ । पूजिता मानिता प्रज्ञा धूपदीपादिभिस्तदा
ब्राह्मणं सुकलापृच्छत्किमेषा च वदेन्मम । ब्राह्मण उवाच- भर्तुश्चागमनं ब्रूते तवैव सुभगे स्थिरा
दिनसप्तकमध्ये स आगमिष्यति नान्यथा
इत्येवमाकर्ण्यसुमंगलं वचः प्रहर्षयुक्ता सहसा बभूव । धर्मज्ञमेकं सगुणं हि कांतं शकुनात्प्रदिष्टं हि समागतं तम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षट्पंचाशत्तमोऽध्यायः
विष्णुरुवाच- क्रीडा सतीरूप धरा प्रभूत्वा गेहं गता चारु पतिव्रतायाः । तामागतां सत्यस्वरूपयुक्ता सा सादरं वाक्यमुवाच धन्या
वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य । मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेयुक्तम्
ममापि भर्ता प्रबलो गुणज्ञो धीरः सविद्यो महिमाप्रयुक्तः । त्यक्त्वा गतः पापतरांसुपुण्यो मामेव नाथः शृणु पुण्यकीर्तिः
वाक्यैस्तु पुण्यैरबलास्वभावादाकर्ण्य सर्वं सुकला समुक्तम् । संशुद्धभावां च विचिंत्य चाह कस्माद्गतः सुंदरि तेऽद्य नाथः
विहाय ते रूपमतीव सत्यमाचक्ष्व सर्वं भवती सुभर्तुः । ध्यानोपयुक्ता सकलं करोति सखीस्वरूपा गृहमागता मे