एवं वद स्वतं ज्ञात्वा यस्यार्थमिह चागता । दर्शयस्व अपूर्वं मे यदि भोक्तुमिहेच्छसि
व्याधिना पीड्यमानस्य कफेनापि वृतस्य च । अंगाद्विचलते शोणः स्थानभ्रष्टोभिजायते
अंगसंधिषु सर्वासु पलत्वं चांतरं गतः । एकतो नाशमायाति स्वं हि रूपं परित्यजेत्
विष्ठात्वं जायते शीघ्रं कृमिभिश्च भवेत्किल । तद्वद्दुःखकरं वापि निजरूपं परित्यजेत्
श्रूयतां जायते पश्चात्कृमिदुर्गंधसंकुलम् । जायंते तत्र वै यूकाः कृमयो वा न संशयः
सकृमिः कुरुते स्फोटं कंडूं च परिदारुणाम् । व्यथामुत्पादयेद्यूका सर्वांगं परिचालयेत्
नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते । तद्वत्तैश्च शृणुष्वैव सुरतस्य न संशयः
भुंजत्येव रसान्मर्त्यः सुभिक्षान्पिबते पुनः । वायुना तेन प्राणेन पाकस्थानं प्रणीयते
यद्भक्तं प्राणिभिर्दूति पाकस्थानं गतं पुनः । सर्वं तत्पिहितं तत्र वायुर्वै पातयेन्मलम्
सारभूतो रसस्तत्र तद्रक्तश्च प्रजायते । निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च
आकृष्टः स समानेन नीतस्तेनापि वायुना । स्थानं न लभते वीर्यं चंचलत्वेन वर्तते
प्राणिनां हि कपालेषु कृमयः संति पंच वै । द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः
कनिष्ठांगुलिमानेन रक्तपुच्छाश्च दूतिके । नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः
तेषां नामापि भद्रे त्वं मत्तो निगदितं शृणु । पिंगली शृंखली नाम द्वौ कृमी कर्णमूलयोः
चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः । शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ
कृमीणां शतपंचाशत्तादृग्भूता न संशयः । भालांतेवस्थिताः सर्वे राजिकायाः प्रमाणतः
कपालरोगिणः सर्वे विकुर्वंति न संशयः । केशद्वयं मुखे तस्य विद्यते शृणु दूतिके
प्राणिनां संक्षयं विद्धि तत्क्षणे हि न संशयः । स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे
तद्वीर्यं रसरूपेण पतते नात्र संशयः । मुखेन पिबते वीर्यं तेन मत्तः प्रजायते
तालुमध्यप्रदेशे च चंचलत्वेन वर्तते । इडा च पिंगला नाडी सुषुम्णाख्या च संस्थिता
सुबलेनापि तस्यैव नाडिका जालपंजरे । कामकंडूर्भवेद्दूति सर्वेषां प्राणिनां किल
पुंसश्च स्फुरते लिंगं नार्या योनिश्च दूतिके । स्त्रीपुंसौ संप्रमत्तौ तु व्रजतः संगमं ततः
कायेन कायसंघृष्टिर्मैथुनेन हि जायते । क्षणमात्रं सुखं काये पुनः कंडूश्च तादृशी
सर्वत्र दृश्यते दूति भाव एवंविधः किल । व्रज त्वमात्मनः स्थानं नैवास्त्यत्र अपूर्वता
अपूर्वं नास्ति मे किंचित्करोम्येव न संशयः
विष्णुरुवाच- एवमुक्ता गता दूती तया सुकलया तदा । समासेन सुसंप्रोक्तमवधार्य पुरंदरः
तदर्थं भाषितं तस्याः सत्यधर्मसमन्वितम् । आलोच्य साहसं धैर्यं ज्ञानमेव पुरंदरः
ईदृशं हि वदेत्का हि नारी भूत्वा महीतले । योगरूपं सुसंशिष्टं न्यायोदैः क्षालितं वचः
पवित्रेयं महाभागा सत्यरूपा न संशयः । त्रैलोक्यस्य समस्तस्य धुरं धर्तुं भवेत्क्षमा
एतदर्थं विचार्यैव जिष्णुः कंदर्पमब्रवीत् । त्वया सह गमिष्यामि द्रष्टुं तां कृकलप्रियाम्