वृत्रेण च कृतः कूपो महागंभीरसंज्ञकः । कूपात्सा निःसृता देवी महापापौघनाशिनी
यथा गंगा तथेयं च सरिच्छ्रेष्ठा सुरोत्तमे । अस्या दर्शनमात्रेण पापौघाः शमयंति च
शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् । यच्छ्रुत्वा पापिनो दोषैर्विमुक्ताः कर्मबंधनात्
चंपके नगरे चैव राजा राज्यं करोति सः । सदा दुष्टो दुष्टरूपो जनानां स प्रपीडकः
अधर्मो धर्मरूपश्च विष्णुनिंदापरायणः । देव द्विज निहंता च आश्रमाणां विदूषकः
वेदनिंदापरः श्रीमान्मूर्खो वा निर्घृणः शठः । असच्छास्त्रेषु निरतः परदाराभिमर्शकः
विदारुणेति नामा च संजातो मूर्ख एव च । कदाचिद्दैवयोगेन आगतस्तां नदीं प्रति
आखेटकसमायुक्तः स्वयं कुष्ठी सुरेश्वरि । महापापादयं जातो ब्राह्मणानां च निंदनात्
वृथावादी दुरात्मा च शठो वै निर्घृणः पशुः । वेदनिंदारतो नित्यं गोशास्त्राणां प्रदूषकः
एवंविधो वने भ्राम्यंस्तृषार्तः स सुहृद्वृतः । अश्वादुत्तीर्य राजाऽसौ जलं पीत्वा गृहं गतः
तेनैवोदकपानेन गतं कुष्ठं न संशयः । बुद्धिस्तु निर्मला जाता तस्य राज्ञो विशेषतः
विष्णौ भक्तिः समुत्पन्ना तदा तस्य सुरेश्वरि । ततः प्रभृति कालेन स्नानं वै कृतवान्सदा
निर्मलो बहुरूपाढ्यो जातस्तत्र सुरेश्वरि । इहलोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः
विप्रेभ्यो दक्षिणां दत्वा स गतो वैष्णवं पदम् । इति ज्ञात्वा तु भो देवि वेत्रवत्यां विशेषतः
स्नानं कुर्वंति ये विप्रास्ते मुक्ता नगनंदिनि । राजन्यो वाथ वैश्यो वा शूद्रो वा सुरसत्तमे
यत्र स्नानं प्रकुर्वंति ते मुक्ताः पापबंधनात् । कार्तिके वाऽथ माघे वा बाह्यो वा वेदनिंदकः
सरितां संगमे स्नात्वा मुच्यते देवि किल्बिषात् । साभ्रमत्याः समं यत्र तस्याः संगः प्रदृश्यते
तत्र स्नात्वा विशेषेण मुच्यते ब्रह्महा सदा । खेटकं नगरं दिव्यं स्वर्गरूपं तु वाऽनघे
ब्रह्मणा तत्र वै देवि योगाश्च बहवः कृताः । तत्र स्नात्वा च भुक्त्वा च पुनर्जन्म न विद्यते
सा द्वितीया स्मृता गंगा कलौ देवि विशेषतः । ये नराः सुखमिच्छंति धनमिच्छंति ये नराः
स्वर्गमिच्छंति ये लोकास्ते वै स्नात्वा पुनःपुनः । इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम्
सूर्यवंशे च ये जाताः सोमवंशे तथैव च । आगता वेत्रवत्यां तु स्नात्वा निर्वृतिमागताः
दर्शनाद्धरते दुःखं स्पर्शनान्मानसं ह्यघम् । स्नात्वा भुक्त्वा तथा देवि मुक्तिभागी न संशयः
स्नानाज्जपात्तथाहोमादनंतं फलमश्नुते । गत्वा वाराणसीतीर्थं भक्त्या चांद्रायणं चरेत्
तत्र गत्वा महत्पुण्यं तत्पुण्यं सुरसत्तमे । वेत्रवत्यां विशेषेण पंचत्वं यदि गच्छति
स वै चतुर्भुजो भूत्वा याति विष्णोः परं पदम् । पृथिव्यां यानि तीर्थानि ये देवाः पितरस्तथा
ते सर्वे च वसंतीह वेत्रवत्यां सुरेश्वरि । किमन्यद्बहुनोक्तेन भूयो भूयो वरानने
वेत्रवत्याः समं तीर्थं पृथिव्यां न सनातनि । अहं विष्णुस्तथा ब्रह्मा देवाश्च परमर्षयः
तिष्ठंति देवताः सर्वे वेत्रवत्यां महेश्वरि । एककालं द्विकालं वा त्रिकालं च विशेषतः
स्नानं कुर्वंति ये तत्र ते वै मुक्ता न संशयः